Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 15 फ़रवरीमासः (हि.स.)। विश्वविख्याते प्रयागराज माघ मेला इत्यस्य अन्तिमे महत्त्वपूर्णे स्नानपर्वणि महाशिवरात्र्यां पावने त्रिवेणी संगम शुभमुहूर्ते “हर हर महादेव” इति जयघोषेण आस्थायाः डुबकी आरब्धा। रविवासरस्य प्रभाते एव संगमं सहितं सर्वेषु घाटेषु श्रद्धालूनां जनसागरः उमटितः।
सुरक्षाव्यवस्थायाः दृष्ट्या जलपुलिसबलं प्रशिक्षित-गोताख़ोराः नाविकाः च, तथा एसडीआरएफ-दलानि नियुक्तानि सन्ति। तदनन्तरं सर्वेषु घाटेषु स्थापितैः सीसीटीवी-कैमेरैः एआई-प्रणाल्या च सह पुलिस-अधिकारी निरन्तरं निरीक्षणं कुर्वन्ति।
महाशिवरात्रेः पावनावसरे पतितपावन्याः माता गंगा, यमुना तथा अन्तःसलिलायाः सरस्वती पवित्रसंगमे रविवासरस्य प्रभाते “हर हर महादेव” इति घोषेण सह श्रद्धालवः संगमे स्नानं कृत्वा पुण्यम् अर्जयन्ति। आस्थाडुबक्याः अनन्तरं ते मातुः गङ्गायाः पूजार्चनां आरतीं च कृत्वा, बाबा भोलेनाथस्य जलाभिषेकाय संगमतटे स्थितेषु शिवमन्दिरेषु जलार्पणं कुर्वन्ति।
भगवतः भोलेनाथस्य जलाभिषेकाय मनकामेश्वर मंदिर, नागवासुकी मंदिर, शंकर विमान मंडपम, ब्रह्मेश्वर महादेव मंदिर, पांडेश्वर महादेव मंदिर, कोटेश्वर महादेव मंदिर इत्यादिषु प्रयागराजे स्थितेषु सर्वेषु शिवालयेषु अपि श्रद्धालूनां महान् समागमः दृश्यते।
महाशिवरात्रिपर्वस्य सकुशल-सम्पादनार्थं पुलिस-आयुक्तः जोगेंद्र कुमार, अपर-पुलिस-आयुक्तः अजय पाल शर्मा, माघमेला-पुलिस-अधीक्षकः नीरज कुमार पांडेय, मेला-अधिकारी ऋषिराज, जिला-अधिकारी मनीष कुमार वर्मा, पुलिस-उपायुक्त-नगरः मनीष कुमार शांडिल्य, पुलिस-उपायुक्त-गंगानगरः कुलदीप सिंह गुनावत, पुलिस-उपायुक्त-यमुनानगरः विवेक चन्द्र यादव इत्यादयः अधिकारी निरन्तरं निरीक्षणं कुर्वन्तः स्वाधीनान् कर्मचारिणः आवश्यकान् निर्देशान् ददति।
शिवमन्दिराणां निरीक्षणार्थं पुलिसबलं महिला-सिपाहिन्यश्च अपि नियुक्ताः सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता