रायगढे : मुख्यमंत्री सायः 28 समाजस्य प्रमुखजनैः सह मिलित्वाऽकरोत् संवादम्
रायगढ़म् , 15 फ़रवरीमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णु देव सायः शनिवासरे रायगढ-जिलायाः प्रवासकाले सायंकाले सर्किट-हाउस-भवने जिलायाः विविध-सामाजिक-सङ्गठनानां समाज-प्रमुखानां च सह मिलित्वा संवादं कृतवान्। मुख्यमन्त्री समाजस्य समग्र
मुख्यमंत्री साय ने समाज प्रमुखों के साथ संवाद किया


रायगढ़म् , 15 फ़रवरीमासः (हि.स.)।

छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णु देव सायः शनिवासरे रायगढ-जिलायाः प्रवासकाले सायंकाले सर्किट-हाउस-भवने जिलायाः विविध-सामाजिक-सङ्गठनानां समाज-प्रमुखानां च सह मिलित्वा संवादं कृतवान्।

मुख्यमन्त्री समाजस्य समग्र-विकासे सामाजिक-सङ्गठनानां महत्त्वपूर्णां भूमिकां प्रकाशयन् अवदत् यत् शासनस्य जनकल्याणकारी-योजनाः अन्तिम-व्यक्तिपर्यन्तं प्रापयितुं सर्वेषां समाजानां सक्रिय-भागीदारी अनिवार्या अस्ति। अस्मिन् अवसरे अष्टाविंशति (२८) समाज-प्रमुखाः सहभागिनः अभवन्।

तेषु अघरिया, बंगाली-सिख, केरल, अग्रवाल, यादव, साहू, माली, गुजराती, चौहान, आदिवासी, उत्कल, सिन्धी, सतनामी, करण-महंती, केसरवानी, बरई-थवाईत, राजपूत, मराठी, कुशवाहा, सोनी-ब्राह्मण, भोजपुरी, निषाद, जैन, कोलता, देवांगन तथा कुम्हार-समाजस्य प्रतिनिधयः स्वीयाः मागाः समस्याः च मुख्यमन्त्रिणः समक्षं प्रस्तुतवन्तः।

मुख्यमन्त्री विष्णुदेवसाय सर्वासां मागानां विषये गम्भीरतया विचारं कृत्वा नियमानुसारं आवश्यक-कार्यवाही करिष्यामीति आश्वासनं दत्तवान्। सः समाज-प्रमुखान् आह्वयत् यत् ते स्व-स्व-समाजस्य जनान् शासनस्य महत्त्वपूर्ण-योजनाभिः सह संयोजयितुं प्रेरयन्तु, येन योजनानां वास्तविक-लाभः आवश्यक-जनपर्यन्तं प्राप्नुयात्।

मुख्यमन्त्री साय उक्तवान् यत् राज्य-सरकारः समाजस्य प्रत्येक-वर्गस्य सर्वाङ्गीण-विकासाय संकल्पबद्धा अस्ति तथा संवाद-समन्वययोः माध्यमेन विकास-कार्याणि निरन्तरं प्रगालयति। संवादानन्तरं सः समाज-प्रमुखैः सह सौहार्दपूर्ण-वातावरणे सामूहिक-भोजनम् अपि कृतवान्।

अस्मिन् अवसरे वित्तमन्त्री ओपी चौधरी, नगर-निगम-महापौरः जीवर्धन चौहान, सभापतिः डिग्रीलाल साहू, जिला-पञ्चायत्-अध्यक्षः शिखा रविन्द्र गबेल इत्यादयः अन्ये जनप्रतिनिधयः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार