राजिमकुम्भकल्पाः - महाशिवरात्रिपर्वणि अद्य मुख्यमंत्री सायः करिष्यति मेलापकस्य समापनम्
राजिम 15 फ़रवरीमासः (हि.स.)। महाशिवरात्रेः पावनावसरे पञ्चदशदिनपर्यन्तं प्रवर्तमानस्य छत्तीसगढराज्यस्य गरियाबन्दजिलास्थितस्य राजिम कुंभकल्पमेला इत्यस्य भव्य-समापन-समारोहः अद्य रविवासरे भविष्यति। समापन-कार्यक्रमे प्रदेशस्य मुख्यमन्त्री विष्णुदेवसायः
मुख्यमंत्री विष्णु देव साय


राजिम 15 फ़रवरीमासः (हि.स.)। महाशिवरात्रेः पावनावसरे पञ्चदशदिनपर्यन्तं प्रवर्तमानस्य छत्तीसगढराज्यस्य गरियाबन्दजिलास्थितस्य राजिम कुंभकल्पमेला इत्यस्य भव्य-समापन-समारोहः अद्य रविवासरे भविष्यति। समापन-कार्यक्रमे प्रदेशस्य मुख्यमन्त्री विष्णुदेवसायः मुख्य-अतिथिरूपेण सहभागी भूत्वा मेलस्य औपचारिक-समापनं करिष्यति।

कार्यक्रमे विशिष्ट-अतिथिरूपेण उपमुख्यमन्त्री अरुणसावः, उपमुख्यमन्त्री विजयशर्मा, मन्त्रिगणाः रामविचारनेतामः, दयालदासबघेलः, केदारकश्यपः, लखनलालदेवांगनः, श्यामबिहारीजायसवालः, ओपीचौधरी, लक्ष्मीराजवाड़े, टंकरामवर्मा, गजेंद्रयादवः, गुरुखुशवंतसाहेब तथा राजेश अग्रवाल इत्येतेषां गरिमामयी उपस्थिति भविष्यति।

विशेष-अतिथिषु बृजमोहन अग्रवालः, रूपकुमारीचौधरी, अजयचंद्राकरः सहिताः अन्ये जनप्रतिनिधयः अपि गरिमामयी उपस्थितिं दास्यन्ति।

समापन-अवसरे बहुसंख्यया साधु-सन्तानां सान्निध्यम् अपि प्राप्तं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता