रामसिंहस्य इतिहास–संकलन–योजनया राष्ट्रचेतना सशक्तीकृता — सुरेशसोनी
हमीरपुरनगरम्, १५ फरवरीमासः (हि.स.)। राष्ट्रीय–स्वयंसेवक–संघस्य केन्द्रीय–कार्यकारिणी–सदस्यः सुरेशसोनी अवदत् यत् ठाकुर–रामसिंहेन आरब्धा इतिहास–संकलन–योजना देशे सकारात्मकं बौद्धिकं वातावरणं निर्मातुं राष्ट्रचेतनां च दृढीकर्तुं महत्त्वपूर्णां भूमिकां
कार्यक्रम


हमीरपुरनगरम्, १५ फरवरीमासः (हि.स.)। राष्ट्रीय–स्वयंसेवक–संघस्य केन्द्रीय–कार्यकारिणी–सदस्यः सुरेशसोनी अवदत् यत् ठाकुर–रामसिंहेन आरब्धा इतिहास–संकलन–योजना देशे सकारात्मकं बौद्धिकं वातावरणं निर्मातुं राष्ट्रचेतनां च दृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। सः रविवासरे हमीरपुर–जनपदस्य नेरी-स्थले आयोजिते रामसिंहस्य १११तम–जन्मजयन्ती–समारोहे मुख्यवक्तारूपेण सम्बोधितवान्।

सोनी अवदत् यत् रामसिंहस्य प्रतिमाया: अनावरणं केवलं श्रद्धाञ्जलिः न, अपि तु सा भारतीय–परम्परायाः प्रतीकं यत्र समाजः स्व–महापुरुषाणां आदर्शेभ्यः प्रेरणां गृहीत्वा अग्रे गच्छति। तेन उक्तं यत् रामसिंहेन कठिन–परिस्थितिषु अपि राष्ट्रीय–स्वयंसेवक–संघस्य कार्यं अग्रे नीतं, वर्षे १९८८ मध्ये च इतिहास–संकलन–योजनायाः शुभारम्भः कृतः। तस्य मतम् आसीत् यत् भारतीय–इतिहासः भारतीय–दृष्ट्या एव अवगन्तव्यः प्रस्तोतव्यश्च।

तस्य वक्तव्यानुसारं ब्रिटिश–शासन–काले देशं समाजं च विभाजयितुं केचन भ्रान्त–अवधारणाः प्रतिष्ठापयितुं प्रयासाः कृताः। आर्य–आक्रमण–सिद्धान्त-सदृशैः विचारैः भारतस्य परम्पराः बाह्य–प्रभाव–परिणामाः इति दर्शयितुं यत्नः कृतः; किन्तु भारतीय–स्रोतैः, परम्पराभिः तथा अनुसन्धानैः एताभ्य: अवधारणाभ्य: आवाहनं(चुनौति) लब्धम् अस्ति। सोनी अवदत् यत् भारतीय–इतिहासस्य कालगणना, वंशावली–परम्परा:, लोक–परम्पराः, प्राचीन–ग्रन्थाश्च अस्माकं इतिहासस्य महत्त्वपूर्णानि प्रमाणानि सन्ति; एतेषु गम्भीर–अनुसन्धानस्य आवश्यकता वर्तते।

कार्यक्रमे मुख्यातिथिः केन्द्रीय–स्वास्थ्य–मन्त्री जगत्–प्रकाश–नड्डा अवदत् यत् ठाकुर–रामसिंहः कुशलः संघटकः, दूरदर्शी विचारकः लेखकश्च आसीत्। तेन निर्दिष्टं यत् रामसिंहेन स्व–अनुसन्धान–कार्यैः भारतीय–इतिहासस्य पुनर्लेखनस्य आवश्यकता विशेषतया प्रतिपादिता:; नेरी–स्थं अनुसन्धान–संस्थानं तस्यां दिशि कार्यं करोति। सः अवदत् यत् नव–शिक्षा–नीत्यां भारतीय–दृष्टेः महत्त्वं दत्तम् अस्ति, केन्द्र–सर्वकारेण च बहुसंख्यकाः पाण्डुलिपयः अंकीयकरणाय नीताः सन्ति।

पूर्व–मुख्यमन्त्री प्रेमकुमार–धूमल: अवदत् यत् रामसिंहस्य मतम् आसीत्—यत् राष्ट्रं स्व–इतिहासं विस्मरति तत् अग्रे गन्तुं न शक्नोति। तेन उक्तं यत् रामसिंहस्य मार्गदर्शनेन बहूनि संस्थानानि स्थापितानि, ये अद्यापि समाजे राष्ट्रचेतनां दृढीकर्तुं कार्यं कुर्वन्ति।

समारोहे बहुसंख्यकाः शिक्षाविदः, सामाजिक–कार्यकर्तारः, स्थानीय–जनाश्च सहभागिनः अभवन्। ते ठाकुर–रामसिंहं श्रद्धाञ्जलिं समर्प्य तस्य विचारान् अग्रे नेतुं संकल्पं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता