Enter your Email Address to subscribe to our newsletters

कोयंबटूर, 15 फरवरीमासः(हि.स.)।रक्षामंत्री राजनाथसिंहः अद्य तमिलनाडुराज्यस्य यात्रां प्रति आगच्छति। सः कोयम्बत्तूरनगरे महाशिवरात्र्याः अवसर उपलक्षिते कार्यक्रमे सहभागं करिष्यति।
महाशिवरात्र्याः पावनावसरे दक्षिण कैलाश भक्ति परिषद इत्यस्य तत्वावधानेन अद्य आदियोगिरथयात्रा सम्पूर्णे तमिलनाडुराज्ये आयोजिता अस्ति। अस्यैव क्रमस्य अन्तर्गतं कोयम्बत्तूरनगरस्य थोंडामुथूरप्रदेशे स्थिते ईशा योग केंद्र इत्यस्मिन् केन्द्रे सायंकाले महाशिवरात्रेः भव्यसमारोहः भविष्यति।
अत्र स्थितायाः आदियोगी शिव मूर्ति प्रतिमायाः समक्षं भवति अयं कार्यक्रमः, यस्मिन् रक्षामन्त्री राजनाथसिंहः सहभागं करिष्यति। सः सायं ४:१५ वादने विमानेन कोयम्बत्तूरं प्राप्स्यति।
अस्मिन् कार्यक्रमे लक्षाधिकाः श्रद्धालवः सहभागीभवन्ति इति सम्भावना अस्ति। कोयम्बत्तूरजिले सुरक्षाव्यवस्थायाः दृष्ट्या सप्तसहस्रं पुलिसकर्मिणः नियुक्ताः सन्ति।
राजनाथसिंहः कोयम्बत्तूरात् सायं ४:२५ वादने विशेषहेलिकोप्टरेण ईशायोगकेन्द्रं प्रति प्रस्थितः भविष्यति। सः केन्द्रे रात्रेः आरभ्य प्रभातकालपर्यन्तं यावत् प्रवर्तमानायां पूजायां संगीतकार्यक्रमेषु च सहभागं करिष्यति।
अनन्तरं परदिने सः प्रातः १०:४५ वादने कोयम्बत्तूरात् विमानेन दिल्लीं प्रति प्रस्थानं करिष्यति।-------------------
हिन्दुस्थान समाचार / अंशु गुप्ता