Enter your Email Address to subscribe to our newsletters


अलवरः, 15 फरवरीमासः (हि.स.)।महाशिवरात्रि-पर्वणि अलवर-जनपदस्य शिवमन्दिरेषु प्रभातात् एव श्रद्धालूनां महान् समागमः आसीत्। विभिन्नेषु मन्दिरेषु दर्शनार्थं दीर्घाः पङ्क्तयः दृष्टाः। प्रशासनस्य मन्दिर-समितीनां च पक्षेण सुरक्षा-व्यवस्थायाः विशेष-प्रबन्धाः कृताः सन्ति।
नगरस्य प्राचीनः त्रिपोलिया महादेव मंदिर इत्यत्र प्रभाते पञ्चवादनात् एव श्रद्धालवः पङ्क्तौ स्थिताः। दूरस्थ-प्रदेशेभ्यः आगताः भक्ताः दर्शनार्थं निरन्तरं पङ्क्तौ तिष्ठन्ति स्म। मन्दिर-प्राङ्गणे भजन-कीर्तन-कार्यक्रमः आयोजितः। सायंकाले विशेष-शृङ्गार-समारोहः प्रस्तावितः अस्ति।
जनपदस्य अन्येषु शिवालयेषु अपि दिवसभरं पूजार्चना प्रवृत्ता आसीत्। श्रद्धालवः जलाभिषेकं दुग्धाभिषेकं च कृत्वा बिल्वपत्राणि समर्प्य पूजां कुर्वन्ति। भीड्-नियन्त्रणार्थं बैरिकेटिङ्ग-व्यवस्था तथा पुलिस-प्रबन्धः कृतः।
महाशिवरात्रौ नीलकंठ महादेव मंदिर, नलदेश्वर महादेव मंदिर, भर्तहरि शिव मंदिर तथा तालवृक्ष-प्रदेशस्थिते शिवमन्दिरे अपि प्रभातात् एव श्रद्धालूनाम् आगमन-गमनं प्रवर्तते स्म। अनेकाः श्रद्धालवः व्रतं कृत्वा रात्रौ जागरणे भजन-कीर्तने च सहभागं कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता