किंग जॉर्ज चिकित्सा विश्वविद्यालयः उन्नतस्य फुफ्फुसस्य प्रत्यारोपणशालायाः स्थापनायै अग्रसरः : प्रो. सोनिया नित्यानंदः
-फुफ्फुसगते कर्करोगे पल्मोनरी एवं क्रिटिकल केयर मेडिसिन विभागस्य च भूमिका लखनऊ , 15 फ़रवरीमासः (हि.स.)।उत्तरप्रदेशस्य राजधानी लखनऊनगरे स्थिते किंग जॉर्ज चिकित्साविश्वविद्यालये केजीएमयू इत्याख्ये पल्मोनरी एण्ड क्रिटिकल केयर मेडिसिन विभागेन, इण्डिय
किंग जॉर्ज चिकित्सा विश्वविद्यालय (केजीएमयू) लखनऊ


-फुफ्फुसगते कर्करोगे पल्मोनरी एवं क्रिटिकल केयर मेडिसिन विभागस्य च भूमिका

लखनऊ , 15 फ़रवरीमासः (हि.स.)।उत्तरप्रदेशस्य राजधानी लखनऊनगरे स्थिते किंग जॉर्ज चिकित्साविश्वविद्यालये केजीएमयू इत्याख्ये पल्मोनरी एण्ड क्रिटिकल केयर मेडिसिन विभागेन, इण्डियन चेस्ट सोसाइटी तथा पल्मोक्रिट फाउण्डेशन इत्येतयोः तत्वावधानेन 14–15 फरवरी तिथ्योः शताब्दी चिकित्सालये केजीएमयू लखनौ इत्यत्र एडवांस्ड इंटरवेंशनल पल्मोनोलॉजी सम्मेलनस्य आयोजनं कृतम्।

सम्मेलनस्य उद्घाटनं विश्वविद्यालयस्य कुलपतिः प्रोफेसर सोनियानित्यानन्देन कृतम्। तया उक्तं यत् किंग जॉर्ज चिकित्साविश्वविद्यालयस्य पल्मोनरी तथा क्रिटिकल केयर मेडिसिन विभागः महत्त्वपूर्णं कार्यं करोति। आगामिषु दिनेṣu अत्र उन्नत फुफ्फुस प्रत्यारोपण एककस्य स्थापना सम्भाव्यते, अस्मिन् दिशि शीघ्रं कार्यं प्रचलति इति सा अवदत्।

एपीकान 2026 इति सम्मेलनं सजीवप्रदर्शनैः, विशेषज्ञव्याख्यानैः, व्यावहारिककौशलविकासकार्यशालाभिः च वायुमार्ग तथा फुफ्फुससम्बद्धचिकित्सायाः उन्नतिं प्रोत्साहयितुं समर्पितं प्रमुखं शैक्षणिकमञ्चरूपेण आयोजितम्। अस्मिन् सम्मेलने इंटरवेंशनल पल्मोनोलॉजी, थोरेसिक ऑन्कोलॉजी, उन्नत श्वसनसघनचिकित्सा इत्यादिषु क्षेत्रेषु राष्ट्रिय अन्तर्राष्ट्रीयस्तरयोः विख्याताः विशेषज्ञाः समागत्य श्वसनचिकित्साक्षेत्रे केजीएमयू संस्थायाः उत्कृष्टताकेन्द्ररूपेण प्रतिष्ठां दृढीकृतवन्तः।

कार्यक्रमे भारतदेशात् विदेशेभ्यश्च आगताः प्रतिष्ठिताः संकायसदस्याः सहभागिनः आसन्। प्रमुखवक्तृषु डॉ आशुतोषसचदेवः अमेरिका देशात् आगतः, यः उन्नतवायुमार्गचिकित्सायां तथा रिजिड् ब्रोंकोस्कोपी इत्यस्मिन् क्षेत्रे वैश्विकरूपेण मान्यः विशेषज्ञः अस्ति।

उद्घाटनसमारोहे मुख्यातिथिरूपेण पद्मश्रीपुरस्कारसम्मानिता केजीएमयू कुलपतिः प्रो सोनियानित्यानन्दा, पद्मश्रीसम्मानितः केजीएमयू पूर्वकुलपतिः प्रो रविकान्तः, पद्मश्रीसम्मानितः पीजीआई चण्डीगढ संस्थायाः मानदप्रोफेसरः दिगम्बरबेहरा च विशिष्टातिथयः उपस्थिताः आसन्। अन्येषु विशिष्टेषु एपीकान 2026 वैज्ञानिकाध्यक्षः तथा एसजीपीजीआई लखनौ संस्थायाः पल्मोनरी मेडिसिन विभागाध्यक्षः प्रो आलोकनाथः, हैदराबादनगरात् प्रख्यातः इंटरवेंशनल पल्मोनोलॉजिस्ट प्रो सुभाकरकाण्डी, डॉ आशुतोषसचदेवः अमेरिका देशात्, तथा अन्ये राष्ट्रिय अन्ताराष्ट्रियस्तरस्य प्रतिष्ठिताः संकायसदस्याः उपस्थिताः आसन्।

कार्यक्रमस्य शुभारम्भः ज्ञानस्य शैक्षणिकोत्कृष्टतायाः प्रतीकरूपेण दीपप्रज्वलनेन सरस्वतीवन्दनया च अभवत्। स्वागतभाषणं पद्मश्रीसम्मानितेन एपीकान 2026 आयोजनाध्यक्षेन प्रो राजेन्द्रप्रसादेन प्रदत्तम्। समारोहस्य प्रमुखाकर्षणेषु त्रयाणां महत्त्वपूर्णानां शैक्षणिकप्रकाशनानां विमोचनं समाविष्टम् आसीत्।

एटलस ऑफ फाइबरऑप्टिक ब्रोंकोस्कोपी इत्यस्य द्वितीयसंस्करणम्, मैलिग्नेंट प्लूरल इफ्यूजन तथा लंग ट्रांसप्लांटेशन प्रिन्सिपल्स प्रैक्टिस एण्ड फ्यूचर डायरेक्शन्स इत्येतानि ग्रन्थानि विमोचितानि, ये श्वसनचिकित्साक्षेत्रे विभागस्य शैक्षणिकनेतृत्वं योगदानं च प्रतिपादयन्ति।

कुलपतिना स्वसम्बोधने उन्नतश्वसनचिकित्सासेवासुदृढीकरणस्य तथा चिकित्साशिक्षायां शैक्षणिकोत्कृष्टताप्रवर्धनस्य महत्त्वं प्रतिपादितम्। समारोहस्य समापनं एपीकान 2026 आयोजनसचिवेन प्रो वेदप्रकाशेन धन्यवादज्ञापनेन अभवत्।

---------------

हिन्दुस्थान समाचार