Enter your Email Address to subscribe to our newsletters

वाराणसी, 15 फरवरीमासः (हि. स.)।
वाराणसी नगरे महमूरगञ्जक्षेत्रे स्थिते श्रीबेचु महादेव मंदिर मन्दिरे राष्ट्रीय स्वयंसेवक संघ काशीमहानगरस्य पक्षतः घोषटोल्याः कार्यकर्तारः अखिलभारतीयघोषदिवसे महाशिवरात्र्यां घोषवादनम् अकुर्वन्।
शङ्ख आनक प्रणव वेणु इत्यादिवाद्यैः घोषं वादयन्तः कार्यकर्तारः उत्सवं समाचरन्। तेन श्रीबेचु महादेवमन्दिरम् आगतानां सर्वेषां श्रद्धालूनां मनांसि अपि मोहितानि अभवन्।
अखिलभारतीयघोषदिवसस्य अवसरस्य घोषटोल्या विविधाः रचनाः प्रस्तुताः। द्विघण्टापर्यन्ते कार्यक्रमे सङ्घस्य सुराः सर्वत्र गुंजिताः आसन्। अस्मिन् अवसरे प्रचारकः प्रभाकरः, विभागप्रचारकः नितिनः, प्रान्तसहघोषप्रमुखः घनश्यामः, विभागकार्यवाहः राजेशः, सहविभागकार्यवाहः डॉ आशीषः, विभागघोषप्रमुखः विपिनः, घोषटोल्याः वीरेंद्रः, राकेशः, प्रभातः, भागकार्यवाहः राकेशः, कार्यवाहः सुरेन्द्रः, सामाजिकसद्भावप्रमुखः यशपालः अन्ये च अनेके कार्यकर्तारः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार