श्रीकाशीविश्वनाथमंदिरे दर्शनार्थं प्राप्ताः लक्षशः श्रद्धालवः, मुख्यकार्यकारी-अधिकारिणा कृतं स्वागतम्
वाराणसी, 15 फरवरीमासः (हि. स.)।उत्तरप्रदेशस्य वाराणसी-नगरे स्थिते श्री काशी विश्वनाथ मंदिर महाशिवरात्रि-पर्वणि दर्शन-पूजनार्थं श्रद्धालूनां शिवभक्तानां च विशालः जनसमूहः समागतम्। दर्शनार्थम् आगतानां भक्तानां स्वागतं श्रीकाशीविश्वनाथमन्दिरन्यासस्य मु
गुलाब फूल से स्वागत करते मुख्य कार्यकारी अधिकारी विश्वभूषण


वाराणसी, 15 फरवरीमासः (हि. स.)।उत्तरप्रदेशस्य वाराणसी-नगरे स्थिते श्री काशी विश्वनाथ मंदिर महाशिवरात्रि-पर्वणि दर्शन-पूजनार्थं श्रद्धालूनां शिवभक्तानां च विशालः जनसमूहः समागतम्। दर्शनार्थम् आगतानां भक्तानां स्वागतं श्रीकाशीविश्वनाथमन्दिरन्यासस्य मुख्यकार्यकारी-अधिकारी विश्व भूषण मिश्रा गुलाबपुष्पैः अकरोत्।

विश्वभूषणमिश्रः अस्मिन् अवसरे अवदत् यत् महाशिवरात्रि-पर्वणि श्रीकाशीविश्वनाथबाबायाः अलौकिक-दर्शनार्थं लक्षाधिकसंख्यया जनाः आगताः। शनिवासरस्य रात्रौ द्विवादनात् एव शिवभक्ताः श्रद्धालवश्च पङ्क्तौ स्थानं गृहीतवन्तः। प्रातः सप्तवादनपर्यन्तं द्विलक्षाधिकाः श्रद्धालवः दर्शन-पूजनं कृतवन्तः।

महाशिवरात्रेः प्रभाते एव श्रीकाशीविश्वनाथमन्दिरे ज्ञानवापी-प्रदेशात् घाट-दिशः च श्रद्धालूनां दीर्घाः पङ्क्तयः स्थापिताः। वाराणस्यां गोदौलिया, नीचीबाग, बुलानाला-प्रदेशेषु भक्तानां भीड् वर्धमाना जाता, तदा समाजसेवी-सङ्गठनानां पदाधिकरिणः कार्यकर्तारश्च सेवाकार्येषु निरताः अभवन्।

तत्रैव वाराणसी-कमिश्नरेट-पुलिस अपि व्यवस्थापनकार्ये सजगता प्रदर्शितवती। कर्तव्ये नियुक्ताः पुलिसकर्मिणः प्रातःकाले एव मन्दिरमार्गेषु वाहनानां सञ्चारं पूर्णतया निरुद्धवन्तः। बेनियाबाग, रामापुरा, मदनपुरा, मैदागिन-प्रदेशेभ्यः वाहनानि अग्रे गन्तुं न अनुमतानी। अस्मिन् समये वीआईपी-पासयुक्तानि वाहनानि अपि निरुध्य मैदागिन-स्थाने निर्दिष्ट-स्थापनाय प्रेषितानि।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता