Enter your Email Address to subscribe to our newsletters



—पूर्ण रातौ शिवभक्त दर्शनाय अवर्तन्त पंक्तिबद्धाः,मंगलाआरतृयाः अनन्तरम् अनवरतं दर्शनम्
वाराणसी,15 फरवरीमासः (हि.स.)। महाशिवरात्रेः पर्वणि रविवासरे श्री काशी विश्वनाथ मंदिर दरबारे दर्शनपूजनजलाभिषेकयोः कृते सामान्यशिवभक्तैः सह नागासन्तैः संन्यासिभिश्च महद्भिः जनसमूहः समुपागमत्। काशीपुराधिपतेः बाबा विश्वनाथस्य आदिशक्तेः मातुः पार्वत्याः च मिलनमहापर्वणः साक्षिभवितुं शिवभक्तानां मङ्गलारत्याः आरभ्य अर्धरात्रेः शयनारत्यन्तं दरबारं प्रति गन्तुं अखण्डा दीर्घा च पङ्क्तिः आसीत्।
सुरक्षायाः अभेद्यदुर्गबन्द्यां स्थितायां मन्दिरस्य गर्भगृहस्य बहिः स्थापितात् पात्रात् श्रद्धानुरागयोः अखण्डा जलधारा बिल्वपत्रैः मदारधत्तूरदुग्धजलैः सह ज्योतिर्लिङ्गे प्रवहति स्म। अर्धरात्रोत्तरकालात् आरभ्य सम्पूर्णं मन्दिरपरिसरं “हर हर महादेव” “बम बम” इति गगनभेदीघोषैः निनादितम् आसीत्। एष एव दृश्यः जनपदस्य नगरस्य च प्रमुखेषु शिवमन्दिरेषु लघुमहाशिवालयेषु च आसीत्। सर्वत्र “कण्करे कण्करे शङ्करः” इति भावः दृश्यते स्म।
एतत्पूर्वं शनिवासरसायंप्रभृत्य एव पुण्यलाभार्थं लक्षशः शिवभक्ताःतत्र तत्र पङ्क्तिबद्धाः अभवन्। यथा यथा रात्रिः वर्धते स्म तथा तथा पङ्क्तेः परिमाणम् अपि वर्धते स्म। शीतवाताः अपि “हर हर महादेव” “काशी विश्वनाथ गङ्गे” इत्युद्घोषैः निवृत्तिम् इच्छन्ति इव दृश्यन्ते स्म। मङ्गलारत्यनन्तरं प्रभाते द्विकिलोमीटरपर्यन्ता पङ्क्तिः जाता। सम्पूर्णरात्रिं स्थितानामपि भक्तानां मुखेषु क्लान्तिः न दृश्यते स्म। “हर हर महादेव” इति घोषः क्लान्तिनाशने रामबाणमिव सिद्धः।
दरबारं प्राप्तानन्तरं भक्तानामुत्साहः दृष्टव्यः आसीत्। केचन दुग्धेन, केचन गङ्गाजलेन, अन्ये इत्रभस्माभ्यां च बाबां स्नापयामासुः। मन्दिरस्य मुख्यकार्यपालकाधिकारी डॉ विश्वभूषण मिश्रस्य नेतृत्वे अधिकारिणः मङ्गलारत्यनन्तरं पङ्क्तिबद्धेषु श्रद्धालुषु पुष्पवर्षां कृत्वा तेषामभिनन्दनम् अकुर्वन्। मन्दिरन्यासस्य अनुसारं प्रातः ६ वादने ४० निमेषपर्यन्तं १ लक्ष ६० सहस्राधिकाः भक्ताः दर्शनं कृतवन्तः। सप्तवादने एषा संख्या द्विलक्षात् अधिका जाता, नववादनपर्यन्तं च चतुर्लक्षपर्यन्तं अभवत्। न्यासेन सूचितं यत् महाशिवरात्रिपर्वणि ४५ घण्टापर्यन्तं स्पर्शदर्शनं न भविष्यति, केवलं झाङ्की-दर्शनमेव दीयते। ढुण्ढिराजद्वार, गङ्गाद्वार, सरस्वतीफाटकादिभ्यः पञ्चद्वारेभ्यः प्रवेशः प्रदीयते।
श्री काशी विश्वनाथमन्दिरस्य अतिरिक्तं नगरे उपनगरेषु च स्थितेषु गौरी केदारेश्वर मंदिरं, महामृत्युंजय मंदिरं, मार्कण्डेय महादेव मंदिरं, रामेश्वर महादेव मंदिरम् इत्यादिषु शिवालयेषु अपि महती भीड् आसीत्। काशी हिंदू विश्वविद्यालय परिसरस्थिते नूतने काशीविश्वनाथमन्दिरे अपि लक्षशः भक्ताः आगत्य दर्शनं कृतवन्तः, यत्र कुलपतिना रुद्राभिषेकः अपि कृतः।
महाशिवरात्रौ वाराणसी जनपदे पुलिसप्रशासनं अत्यन्तं सजगम् आसीत्। पुलिसकमिश्नर मोहित अग्रवाल, आईजी, डीआईजी, डीसीपी काशीक्षेत्रस्य, जिलाधिकारी सत्येन्द्र कुमारादयः अधिकारीणः व्यवस्थां निरीक्षितवन्तः। मन्दिरपरिसरस्य निरीक्षणं ड्रोनयन्त्रैः सीसीटीवीकैः च अभवत्। सर्वत्र प्रहरीणः दूरदर्शिनीयन्त्रैः सज्जाः आसन्। सम्बद्धमार्गेषु आरएएफ पीएसी दलस्य सैनिकाः नियुक्ताः आसन्। यातायातविनियमनम् अपि कठोरतया प्रवर्तितम्, येन किञ्चिदपि अव्यवस्था न अभवत्।---------
हिन्दुस्थान समाचार