केदारनाथ–धाम्न: ३२५ तमस्य रावल–नामधेयस्य सहमति: बीकेटीसी शीघ्रं घोषणा करिष्यति
देहरादूननगरम्, १५ फरवरीमासः (हि.स.)। पञ्चकेदारेषु प्रमुखस्य भगवत: आशुतोषस्य द्वादश–ज्योतिर्लिङ्गेषु एकस्य केदारनाथ–धाम्न: ३२५ तमस्य रावल–पदाय नूतन–नाम्नः विषये अद्य ऊखीमठे स्थिते ओंकारेश्वर–मन्दिरे आयोजितायां सभायां सर्वसम्मतिः जाता अस्ति। अस्य नाम
केदारनाथ धाम


देहरादूननगरम्, १५ फरवरीमासः (हि.स.)। पञ्चकेदारेषु प्रमुखस्य भगवत: आशुतोषस्य द्वादश–ज्योतिर्लिङ्गेषु एकस्य केदारनाथ–धाम्न: ३२५ तमस्य रावल–पदाय नूतन–नाम्नः विषये अद्य ऊखीमठे स्थिते ओंकारेश्वर–मन्दिरे आयोजितायां सभायां सर्वसम्मतिः जाता अस्ति। अस्य नाम्नः विधिवत् घोषणा श्री–बदरीनाथ–केदारनाथ–मन्दिर–समित्या शीघ्रं करिष्यते।

वस्तुतः, केदारधाम्न: वर्तमानः रावलः भीमाशङ्कर–लिङ्गः स्वास्थ्य–कारणान् उद्दिश्य स्वस्य पदाय द्विचत्वारिंशत्–वर्षीयं शिवाचार्यं शान्ति–लिङ्गं (केदार–लिङ्गम्) स्वीयं उत्तराधिकारीं कृतवान्। महाराष्ट्र–राज्यस्य नांदेड–स्थे स्वीय–मठे सः ७०–वर्षीयः वर्तमान–रावलः भीमाशङ्कर–लिङ्गम् अवदत् यत् स्वास्थ्य–दुर्बलतया सः अद्य केदारनाथस्य रावल–पदं वहितुं असमर्थः अस्ति, अतः स्वशिष्यं शिवाचार्यं शान्ति–लिङ्गं (केदार–लिङ्गम्) उत्तराधिकारीरूपेण घोषितवान्।

महाशिवरात्र्यां ऊखीमठे ओंकारेश्वर–मन्दिरे आयोजितायां सभायां रावल–भीमाशङ्करस्य लिखित–घोषणायाः विषये विचारः कृतः, नूतन–रावलस्य नाम्नः विषये च सहमति: जाता। अस्यां सभायां डंगवाड़ी, भटवाड़ी, चुनी–मंगोली, किमाणा तथा पचौली–डुंगर–सेमला–ग्रामेभ्यः आगताः हक–हकूकधारिणः दस्तूरधारिणश्च ग्रामवासीन: अपि उपस्थिताः आसन्। अस्मिन् विषये बदरीनाथ–केदारनाथ–मन्दिर–समितेः अध्यक्षः हेमन्त–द्विवेदी अवदत् यत् शीघ्रं नूतन–रावलस्य नाम विधिवत् घोषितं भविष्यति।

एषा परम्परा

केदारनाथस्य रावलः अविवाहितः भवति। सः कर्नाटक–प्रदेशस्य वीर–शैव–सम्प्रदायेन सम्बद्धः शिवोपासकश्च भवति। परम्परानुसारं केदारनाथ–मन्दिरे पूजायाः प्रमुखः कर्ता रावलः एव भवति। मन्दिरस्य कपाट–उद्घाटन–समये तथा कपाट–निरोध–समये रावलः धाम्नि अनिवार्यतः उपस्थितः भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता