Enter your Email Address to subscribe to our newsletters

रुद्रप्रयागः (उत्तराखण्ड:), १५ फरवरीमासः (हि.स.)। विश्वविख्यातस्य बाबाकेदारनाथ धाम्न: कपाटाः यात्रा–वर्षे २०२६ कृते २२ एप्रिल-मासस्य (बुधवासरे) प्रातः अष्टवादने श्रद्धालूनां दर्शनार्थं उद्घाटयितुं तिथिः निश्चिताभवत्। महाशिवरात्रेः पावनावसरे शीतकालीन–गद्दीस्थले ओंकारेश्वर मन्दिरे पञ्चाङ्ग–गणनया वैदिक–मन्त्र–उच्चारणेन सह एषः शुभः मुहूर्तः घोषितः।
विद्वदाचार्याणां, हक्–हकूकधारिणां तथा बदरी-केदारमन्दिर समिति–पदाधिकारिणां उपस्थितौ घोषणानन्तरं श्रद्धालुषु उत्साहपूर्णं वातावरणं दृश्यते। परम्परानुसारं निर्धारितायां तिथौ बाबा–केदारस्य पञ्चमुखी डोली केदारपुरीं प्रति प्रस्थानं करिष्यति। यात्रा–सज्जानां विषये प्रशासनं मन्दिर–समितिश्च व्यवस्थां तीव्रतया प्रवर्धितवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता