Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 15 फरवरीमासः (हि.स.)। महाशिवरात्रेः पावने पर्वणि देहरादून सहिते समग्रे राज्ये अपि भगवानः शिवस्य आराधना श्रद्धया उत्साहेन भक्तिभावेन च सम्यक् आचर्यते। प्रातःकालादारभ्य एव शिवालयेषु श्रद्धालूनां दीर्घाः पङ्क्तयः दृश्यन्ते। भक्ताः मन्दिरेषु जलं दुग्धं बिल्वपत्रं धत्तूरं च भगवान्तं शिवम् अर्पयन्ति।
राजधान्या देहरादूनेन सहितेषु हरिद्वार, ऋषिकेश इत्येषु अन्येषु च जनपदेषु प्रमुखमन्दिरेषु विशेषपूजाअर्चना रुद्राभिषेकाश्च आयोजिताः। जागेश्वर धाम मध्ये दीपसज्जा महाआरती च सम्पन्ना। कोटेश्वर महादेव मंदिर तथा पाताल भुवनेश्वर मंदिरम् अपि श्रद्धालुभिः विशेषपूजया समलङ्कृतौ। नीलकंठ महादेव मंदिर प्रति प्रातःकाले एव पर्वतीयमार्गेण पदयात्रया वाहनैः च भक्ताः आगच्छन्ति स्म। “हर हर महादेव” इति जयघोषेण समग्रः प्रदेशः निनादितः।
धर्मनगर्यां हरिद्वारे प्रमुखेषु शिवालयेषु प्रभातादेव महती भीड् आसीत्। कणखलस्थिते दक्षेश्वर महादेव मंदिर तथा बिल्केश्वर महादेव मंदिर सहितेषु अन्येषु मन्दिरेषु भक्ताः जलं दुग्धं बिल्वपत्रं च अर्पयित्वा अभिषेकम् अकुर्वन्। भजनकीर्तनजागराणादयः कार्यक्रमाः अपि अनेकेषु स्थानेषु आयोजिताः। मन्दिराणि वर्णवर्णदीपैः पुष्पैः च सुशोभितानि आसन्।
गढ़ीकैण्ट् स्थिते टपकेश्वर महादेव मंदिरे अपि जनसागरः समुपस्थितः। गुहास्थिते प्राकृतिकशिवलिङ्गे निर्झरवत् टप्यमानजले मध्ये भक्ताः दुग्धजलादिभिः अभिषेकं कृत्वा पूजाम् अकरोत्। मन्दिरप्रबन्धसमित्याः पक्षतः दर्शनव्यवस्थायाः सुचारुत्वार्थं विशेषव्यवस्था कृता, संमर्दनियन्त्रणार्थं बैरिकेडिङ्गं कृतम्, पुलिसप्रशासनदलानि सुरक्षायां नियुक्तानि।
सहारनपुरचौकस्थिते पृथ्वीनाथमहादेवमन्दिरे अपि प्रभातादेव भक्ताः पङ्क्तौ स्थिताः आसन्। महन्तरवीन्द्रपुरीमहाराजस्य पावनसान्निध्ये आयोजितेषु कार्यक्रमेषु “बोल बम” “ॐ नमः शिवाय” इति घोषैः वातावरणं शिवमयम् अभवत्। मध्यरात्रेः आरभ्य सामूहिकरुद्राभिषेकः हरिद्वारात् आनितेन पवित्रगङ्गाजलेन दुग्धदधिघृतशर्करापञ्चामृतबिल्वपत्रैः वैदिकमन्त्रैः श्रीरुद्रीपाठेन सह सम्पन्नः, यः प्रभातपर्यन्तं अवर्तत। ततः अनन्तरं सामान्यश्रद्धालुभ्यः जलाभिषेकः आरब्धः। संवेदनशीलप्रदेशेषु अतिरिक्तपुलिसबलं नियुक्तम्, यातायातव्यवस्था अपि सुचारुरूपेण सञ्चालिता।
धार्मिकविश्वासानुसारं महाशिवरात्रौ उपवासं कृत्वा रात्रिजागरं च कृत्वा शिवोपासना कृतायां सर्वाः मनोकामनाः पूर्णाः भवन्ति इति श्रद्धा वर्तते। श्रद्धालवः पूर्णोत्साहेन आस्थया च एतत् पावनं पर्व समाचरन्ति।
हिन्दुस्थान समाचार