Enter your Email Address to subscribe to our newsletters


हरिद्वारम्, 15 फ़रवरीमासः (हि.स.)।
राष्ट्रीय स्वयंसेवकसंघस्य शताब्दीवर्षकार्यक्रमश्रृंखलायां रविवासरे ज्वालापुरस्य आर्यनगरबस्त्यां आयोजिते हिन्दूसम्मेलने जगद्गुरुः शंकराचार्यः स्वामी राजराजेश्वराश्रममहाराजः उक्तवान् यत् हिन्दू समाजः सुप्तः अस्ति, निरन्तरं हिन्दूनां संख्या अपचीयते। अस्य कारणे अन्यः कोऽपि न दोषी, किन्तु अस्माकं शिक्षितपीढी एव उत्तरदायी अस्ति।
शंकराचार्येण उक्तं यत् यत्र अन्यधर्मेषु बालकाः प्रकृतेः दानरूपेण स्वीक्रियन्ते, तत्र सनातनधर्मानुयायिनः अधिकसन्तानपालनचिन्तया निःसन्तानाः भवन्ति। यदि हिन्दुधर्मपरम्पराः जीविताः स्थापनीयाः स्युः, तर्हि स्वपरिवारवृद्धौ ध्यानं दातव्यम्।
सम्मेलने मुख्यवक्ता तथा आरएसएसस्य क्षेत्रसहसम्पर्कप्रमुखः डॉ हरिशः संघस्य शतवर्षीययात्रायाः विषये प्रकाशं कृतवान्। विशिष्टातिथिः डॉ कल्पनाचौधरी उक्तवती यत् संघस्य शताब्दीवर्षे प्रवर्तमानस्य पञ्चपरिवर्तनस्य पञ्च चिन्तनीयविषयान् यदि प्रत्येकः हिन्दू स्वजीवनशैल्यां अवतारयेत्, तर्हि सः सर्वासां चुनौतिनां सामना कर्तुं समर्थः भवेत्। मञ्चसञ्चालनं उज्ज्वलपण्डितेन कृतम्।
अस्मिन् सम्मेलने संघस्य नगरसंघचालकः अधिवक्ता ज्ञानेशठकरालः, प्रान्तसम्पर्कप्रमुखः सीए अनिलवर्मा, प्रान्तसामाजिकसद्भावनाप्रमुखः रमेशउपाध्यायः, कार्यक्रमसंयोजकः सुशीलः, सहसंयोजकः सुधीररुहेला मुख्यरूपेण उपस्थिताः आसन्।
अन्यत् हिन्दूसम्मेलनं न्यू सुभाषनगरनाम्नि स्थाने साध्वी गंगादासस्याः अध्यक्षतायाम् आयोजितम्। सुभाषबस्तिहिन्दूसम्मेलने मुख्यवक्ता विश्वहिन्दूपरिषदः प्रान्तसंगठनमन्त्री अजयकुमारः उक्तवान् यत् जिहादी इति मानसिकतायुक्ताः जनाः समग्रप्रदेशे शीघ्रतया गोपनीयरीत्या स्वमूलानि स्थापयन्ति। षड्यन्त्रेण दूरस्थेषु पर्वतीयप्रदेशेषु गैरहिन्दवः स्थापिताः सन्ति इति अपि तेन उक्तम्। सः अवदत् यत् हिन्दूनां सजगता आवश्यकी, यतः जिहादीमानसिकतायुक्ताः जनाः लवजिहाद, लैडजिहाद तथा थूकजिहाद इत्यादीनि आचरन्ति। एताभ्यः परिस्थितिभ्यः रक्षणार्थं हिन्दवः एकत्रीभूय स्वइतिहासं ज्ञातुं, स्वमूलान् पोषयित्वा दृढीकर्तुं च प्रयत्नं कुर्वन्तु।
सम्मेलने कथावाचकः आचार्य पवनकृष्णशास्त्री हिन्दून् स्वसंस्कारैः सह सम्बद्धान् भवितुं प्रेरितवान्। संयोजकः त्रिलोकभट्टः सम्मेलनस्य संचालनं कृतवान्। अस्मिन् अवसरः सहसंयोजिका मीनाक्षीकपिलसहिताः अनेके गण्यमान्याः जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार