दिल्ली–आरक्षी–स्थापना–दिवसः — अमितशाह: उक्तवान् यत्- नूतनया न्याय–संहितया दोषसिद्धेः वृद्धिः भविष्यति
नवदिल्ली, १६ फरवरीमासः (हि.स.)।केन्द्रीयः गृहमन्त्री अमितशाह: सोमवासरे अवदत् यत् नूतनन्याय–संहितानां पूर्ण–प्रवर्तनात् देशे न्याय–व्यवस्थायाः स्थितौ महान् सुधारः भविष्यति, तथा दोषसिद्धेः दरः ८० प्रतिशतपर्यन्तं प्राप्स्यति। शाहः अद्य दिल्ली आरक्षी–स
गृहमंत्री अमित शाह


दिल्ली पुलिस के 79वें स्थापना दिवस पर परेड करते जवान


नवदिल्ली, १६ फरवरीमासः (हि.स.)।केन्द्रीयः गृहमन्त्री अमितशाह: सोमवासरे अवदत् यत् नूतनन्याय–संहितानां पूर्ण–प्रवर्तनात् देशे न्याय–व्यवस्थायाः स्थितौ महान् सुधारः भविष्यति, तथा दोषसिद्धेः दरः ८० प्रतिशतपर्यन्तं प्राप्स्यति। शाहः अद्य दिल्ली आरक्षी–स्थापनादिवसस्य ७९तमे अवसरे अवदत् यत् नरेन्द्रमोदिन: नेतृत्वे गतद्वादशवर्षेषु देशस्य आन्तरिक–सुरक्षायां ऐतिहासिकाः उपलब्धयः सिद्धाः। कश्मीरप्रदेशे (धारा ३७० निरसनानन्तरम्), पूर्वोत्तर–प्रदेशेषु तथा माओवादी–प्रभावित–क्षेत्रेषु हिंसाया: विवरणं ८० प्रतिशतपर्यन्तं न्यूनं अभवत्, तथा अस्य वर्षस्य ३१ मार्चमासपर्यन्तं देशः नक्सल–हिंसायाः पूर्णतया मुक्तः करिष्यते इति विश्वासं व्यक्तवान्। अग्रिमकाले गृहमन्त्रालयस्य मुख्य–ध्यानं नारकोटिक्स–नियन्त्रणं, सीमा–सुरक्षायाः आधुनिकीकरणं, नूतन-न्याय–संहितानां च पूर्ण–क्रियान्वयनं प्रति भविष्यतीति सः अवदत्, तथा २०२९तमात् वर्षात् पूर्वमेव देशः एताभ्यः समस्याभ्यः मुक्तः भविष्यतीति विश्वासं दर्शितवान्।

स्थापनादिवसे सोमवासरे राजधानीस्थे किंग्सवे–कैंप–स्थिते न्यू–आरक्षी–लाइन्स–संचलन–प्रांगणे सः मुख्यातिथिरूपेण उपस्थितः आसीत्। तत्र उत्कृष्टानां आरक्षी–कर्मिभ्य: पदक–प्रदानं कृत्वा तेषां समर्पणं, जन–सुरक्षायां भूमिकां तथा सेवां प्रशंसितवान्। कार्यक्रमे दिल्ली–आरक्षिण: श्रेष्ठं संचलनदलं, स्वाट–दलम्, श्वान–स्क्वाड्, वाद्यदलं, मोटरयान–चालका: तथा पीसीआर–दलं इत्यादयः संचलनं कृत्वा स्वक्षमतां प्रदर्शितवन्तः।

अस्मिन् अवसरे गृहमन्त्रिणा दिल्ली–आरक्षिण: दश नूतन–परियोजनानां शिलान्यासः कृतः। एतेषु प्रमुखः विशेष–सेल–सम्बद्धः एकीकृतः मुख्यालयः अस्ति, यः प्रायः पादोनचतुःशत–कोटि–रूप्यकाणां व्ययेन निर्मीयते, तथा आतंकवाद–नारकोटिक्स–निवारणाय देशस्य अत्याधुनिकं केन्द्रं भविष्यति। तदनन्तरं सुरक्षा–नगर-प्रोजेक्ट–योजनायाः प्रथम–चरणस्य उद्घाटनं कृत्वा ८५७ कोटि–रूप्यक–व्ययेन निर्मितं एकीकृतं कमाण्ड्–कण्ट्रोल्–कम्युनिकेशन–एवं संगणक–केन्द्रं (सी४आई) दिल्ली–जनतायै समर्पितम्। अस्यां परियोजनायां ११ जनपद–स्तरीय–सी३आई–केन्द्राणि, ७५ थाना–स्तरीय–सी२आई–एककाः, तथा १०,००० कैमरा–जालं समाविष्टम्, येषु २१०० चित्रग्राहक–यन्त्राणि पूर्वमेव सक्रियाणि अभवन्। तदतिरिक्तं आरक्षी–फैमिलीज–वेलफेयर–सोसाइटी–स्थ विपणस्य लोकार्पणमपि कृतम्।

शाहः अवदत् यत् दिल्ली–आरक्षिण: दायित्वं सम्पूर्ण–देशाय अत्यन्तं महत्त्वपूर्णम्, यतः दिल्ली केवलं नगरं न, अपि तु लोकतन्त्रस्य स्पन्दनं तथा राष्ट्रस्य अस्मितायाः केन्द्रम्। अत्र राष्ट्रपतिभवनम्, प्रधानमन्त्रिणः कार्यालय: निवासश्च, राष्ट्रीय–पर्वाणां तथा अन्ताराष्ट्रिय–आयोजनानां सुरक्षायाः दायित्वं दिल्ली–आरक्षिण: एव अस्ति। तस्मात् सः गर्वं अनुभवति यत् दिल्ली–आरक्षिणा सदैव स्वदायित्वं प्रखरता–सफलताभ्यां सह निर्वह्यते।

सः अवदत् यत् प्रायः पादोन चतुःशत–कोटि–रूप्यक–व्ययेन विशेष–दलस्य एकीकृतः मुख्यालयः निर्मीयते, यः देशस्य अत्याधुनिकतमं केन्द्रं भविष्यति। अत्र अत्याधुनिकाः अन्तः–फायरिङ्–रेञ्ज्, युद्ध–प्रकोष्ठ:, अन्तर्जाल-प्रयोगशाला, प्रशिक्षण–सभागाराः तथा आधुनिक–उपकरणानि स्युः। एतत् केन्द्रं नारकोटिक्स्–आतंकवाद–निवारणे सम्पूर्ण–देशस्य आरक्षी–दलानां कृते आदर्शरूपेण स्थास्यति।

अन्ते गृहमन्त्रिणा संसदेन पारिताः त्रयः नूतनाः आपराधिक–न्याया: न्याय–केन्द्रित–व्यवस्थायाः दिशि महत्त्वपूर्णं पदं इति कथितम्। एतासु न्याय–व्यवस्थासु ई–एफआईआर्, जीरो–एफआईआर्, महिलानां बालकानां च अपराधानां कृते पृथक् अध्यायः, दण्डरूपेण सामुदायिक–सेवायाः मान्यता, आतंकवादस्य परिभाषा–निर्धारणम् इत्यादयः व्यवस्थाः समाविष्टाः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता