Enter your Email Address to subscribe to our newsletters

जयपुरम्, 16 फ़रवरीमासः (हि.स.)।
मुख्यमन्त्री भजनलालशर्मा अवदत् यत् आधुनिक-शिक्षा-प्रणाल्यां नवाचारः, प्रौद्योगिकी, भारतीय-ज्ञान-परम्परा च प्रोत्साहनीयाः, यतः एतेन युवाभ्यः केवलं रोजगार-अवसराः न, अपि तु सुदृढ-चरित्र-निर्माणस्य अवसरः अपि प्राप्यते। सः आचार्येभ्यः आह्वानं कृतवान् यत् ते युवानां ऊर्जा-क्षमताः राष्ट्र-निर्माणस्य दिशि प्रेरयन्तु।
मुख्यमन्त्री सोमवासरे राजस्थान-इण्टरनेशनल-सेन्टर-स्थले आयोजितस्य अखिल-भारतीय-संस्थागत-नेतृत्व-समागम-२०२६ इत्यस्य उद्घाटन-समारोहे सम्बोधनं कुर्वन् आसीत्। तेन उक्तं यत् शिक्षा तादृशी भवेत्, यत्र वेद-ज्ञानस्य सह कृत्रिम-बुद्धेः अवगमः, संस्कृत-श्लोकानां सह कोडिङ्-भाषा, योग-ध्यानयोः सह रोबोटिक्स-नैनो-प्रौद्योगिकी च समाविष्टा भवेत्। ‘अन्तर-संस्थागत-विकासे संवादः’ इति समागमस्य विषयः अत्यन्तं प्रासंगिकः इति तेन निर्दिष्टम्।
शर्मा अवदत् यत् भारतं विश्वस्य सर्वाधिक-युवा-देशः अस्ति, यत्र ६५ प्रतिशताधिक-जनसंख्या ३५ वर्षेभ्यः न्यून-वयस्का अस्ति। एषा जनसांख्यिक-शक्तिः ‘विकसित-भारत-२०४७’ लक्ष्य-प्राप्तौ निर्णायिका भविष्यति। राज्य-सरकार उच्च-शिक्षां गुणात्मकां रोजगारोन्मुखीं च कर्तुं प्रतिबद्धा अस्ति इति तेन उक्तम्।
तेन सूचितं यत् अद्यावधि एक-लक्षाधिक-राजकीय-पदेषु नियुक्तयः प्रदत्ताः, १.५४ लक्ष-पदेषु नियुक्ति-प्रक्रिया प्रवर्तते। अस्मिन् वर्षे एक-लक्ष-राजकीय-नियुक्तीनां कालपत्रिका प्रकाशिताऽस्ति। द्वि-लक्षाधिक-युवभ्यः निजी-क्षेत्रे रोजगारः, साडे-त्रि-लक्ष-विद्यार्थिभ्यः कौशल-प्रशिक्षणम्, द्वि-लक्षाधिक-युवभ्यः इण्टर्नशिप-अवसराः च प्रदत्ताः।
मुख्यमन्त्री अवदत् यत् तस्य शासन-कालमध्ये ३५१ परीक्षाः आयोजिताः, एकोऽपि प्रश्नपत्र-लीक् न अभवत्। प्रदेशे ६५ आई-स्टार्टअप-लॉञ्चपैड-नेस्ट, १७ नवीन-खेलो-इण्डिया-केन्द्राणि, ७१ नूतन-राजकीय-महाविद्यालयाः, १८५ महाविद्यालय-भवनानां लोकार्पणम्, छात्राभ्यः प्रायः ४० सहस्र-स्कूटी-वितरणं च कृतम्।
उपमुख्यमन्त्री प्रेमचन्द-बैरवा अवदत् यत् तक्षशिला-नालन्दा-प्राचीन-विश्वविद्यालययोः परम्परा अद्यापि प्रेरणास्रोतः अस्ति। भारतीय-ज्ञान-परम्परा वैश्वीकरण-युगेऽपि समप्रासंगिका अस्ति। समारोहे विद्या-भारती-उच्च-शिक्षा-संस्थानस्य राष्ट्रीयाध्यक्षः प्रो. कैलाशचन्द्रशर्मा अवदत् यत् समागमे संस्थागत-विकासः, भविष्य-सज्ज-आचार्य-वर्गः, भारत-आधारित-अनुसन्धानम्, भारतीय-भाषा-प्रचारः, प्रौद्योगिकी-आधारित-उच्च-शिक्षायाः भविष्यः इत्यादिषु विषयेषु चर्चा भविष्यति।
कार्यक्रमे शिक्षा-मन्त्रालय-संबद्धाः वरिष्ठ-पदाधिकारीणः, विविध-विश्वविद्यालयानां कुलपतयः, प्रबुद्धजनाः, देशस्य विविध-प्रदेशेभ्यः आगताः आचार्याः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार