Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १६ फरवरीमास: (हि.स.)। असमस्य मुख्यमन्त्री डॉ.हिमंतबिस्व: सरमा सोमवासरे विधानसभायाः वित्तविवरण–सत्रस्य प्रथमदिने पत्रकारै: सह संवादे असम–काङ्ग्रेसस्य पूर्व–अध्यक्षस्य भूपेनकुमारबोरा–इत्यस्य त्यागपत्रं “प्रतीकात्मकः सन्देशः” इति अवदत्। तेनोक्तं यत् एषः सन्देशः पक्षे सामान्य–परिवाराणां तथा हिन्दू–समुदायस्य नेतॄणां उपेक्षां दर्शयति।
काङ्ग्रेस–पक्षात् बोरायाः त्यागपत्रं प्रति प्रतिक्रियां व्यक्त्वा मुख्यमन्त्रीणाऽऽरोपितं यत् असमे काङ्ग्रेस–पक्षे तुष्टीकरण–राजनीतिः शीघ्रतया स्वीक्रियते, तथा च प्रत्याशी–चयन–प्रक्रियायां अल्पसंख्यक–प्रतिनिधित्वाय प्राधान्यं दीयते। तेन उक्तं यत् बोरा राज्य–एककायां अन्तिमः प्रसिद्धः हिन्दू–नेता आसीत्, यः न विधायकः आसीत् न च मन्त्री; तस्य प्रस्थानं पक्षस्य परम्परागत–समर्थन–आधारे वर्धमानं असन्तोषं सूचयति।
मुख्यमन्त्री अवदत् यत् भूपेन–बोरा-इत्यस्य त्यागपत्रं एकाकी घटना न भवेत्। तस्य मतानुसारं अग्रिमेषु दिनेषु अधिकाः भूमिस्तर–नेतारः तथा वर्तमान–विधायकाः अपि काङ्ग्रेसं त्यक्तुं शक्नुवन्ति, येन विधानसभानिर्वाचनात् पूर्वं पक्षान्तर्गतं राजनैतिक–अनिश्चितता अधिका वर्धिष्यते।तथापि मुख्यमन्त्री स्पष्टं कृतवान् यत् काङ्ग्रेसात् आगतानां नेतॄणां भारतीयजनतापक्ष–मध्ये प्रवेशः सावधानतया योजनापूर्वकः करणीयः। तेन आसन–विभाजन–गणनां तथा अग्रिम–राज्यसभा–निर्वाचनानि तादृशाणि कारकाणि इति निर्दिष्टानि, येषां विषये नूतन–सदस्यानां समावेशनात् पूर्वं रणनैतिक–दृष्ट्या विचारः आवश्यकः।
मुख्यमन्त्री डॉ.हिमंतबिस्व: सरमा अवदत् यत् बोरायाः काङ्ग्रेस–त्यागानन्तरं अग्रिम–मङ्गलवासरे सः स्वयम् तस्य (भूपेन–कुमार–बोरायाः) गृहम् गत्वा तस्य भविष्य–राजनैतिक–पथविषये संवादं करिष्यति। तेनोक्तं यत् प्रस्तावित–भ्रमणस्य सूचना पूर्वमेव बोरायै दत्ता, स च एतत् स्वीकृतवान्।
मुख्यमन्त्री स्पष्टं कृतवान् यत् अद्यावधि बोरायाः भाजपाम् प्रवेशस्य विषये किञ्चिदपि न ज्ञायते। तेनोक्तं यत् किञ्चन निर्णयं कर्तुं पूर्वं बोरायै अधिकः समयः तथा अवसरः आवश्यकः भवेत्।
स्वस्य राजनैतिक–यात्रायाः उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् सः काङ्ग्रेस–त्यागात् पूर्वं द्वाविंशतिवर्षाणि काङ्ग्रेस–पक्षे अवसत्, यदा तु बोरा तस्मात् अपि अधिकं दशवर्षाणि—पक्षे सेवां कृतवान्। तेनोक्तं— “अहं द्वाविंशतिवर्षाणि काङ्ग्रेस–पक्षे आसीत्, ततः प्रस्थितवान्; किन्तु सः दशवर्षाणि अधिकं सेवां कृतवान्।”
हिन्दुस्थान समाचार / अंशु गुप्ता