बस्तर–सम्भागस्य सम्भाग–स्तरीय–अधिकारिणां सभा १८ फरवरीमासे भविष्यति
जगदलपुरनगरम्, १६ फरवरीमासः (हि.स.)। डोमनसिंहस्य अध्यक्षतायां १८ फरवरी २०२६ तमे दिने प्रातः ११–वादने कमिश्नर–कार्यालयस्य सभाकक्षे बस्तर–सम्भागस्य सम्भाग–स्तरीय–अधिकारिणां समीक्षा–सभा आहूता अस्ति। अस्यां सभायां सर्वेषां सम्बन्धितानां सम्भाग–स्तरीय–अ
कमिश्नर बस्तर डोमन सिंह


जगदलपुरनगरम्, १६ फरवरीमासः (हि.स.)। डोमनसिंहस्य अध्यक्षतायां १८ फरवरी २०२६ तमे दिने प्रातः ११–वादने कमिश्नर–कार्यालयस्य सभाकक्षे बस्तर–सम्भागस्य सम्भाग–स्तरीय–अधिकारिणां समीक्षा–सभा आहूता अस्ति।

अस्यां सभायां सर्वेषां सम्बन्धितानां सम्भाग–स्तरीय–अधिकारिणां उपस्थितिः अनिवार्या इति निर्देशः दत्तः। तथैव मुख्य–चिकित्सा–स्वास्थ्य–अधिकारिणः तथा समाज–कल्याण–विभागस्य उप–सञ्चालकाः स्व–स्व–जनपदेषु स्थापितेषु एनआइसी–कक्षेषु चलचिर–सम्मेलन–माध्यमेन अद्यतन–सूचनाभिः सह उपस्थितिं सुनिश्चितां कुर्वन्तु इति अपि आदेशाः निर्गताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता