Enter your Email Address to subscribe to our newsletters


अहमदाबादम्, 16 फ़रवरीमासः (हि.स.)।
गुजरात राज्यस्य कुलं त्रयस्त्रिंशत् विद्यालयाः फरवरी-मासस्य षोडश-दिने सोमवासरे प्रातःकाले बमेन विस्फोटनस्य धमकीपूर्णम् ईमेल-सन्देशं प्राप्तवन्तः, येन महान् उद्वेगः उत्पन्नः। एषः धमकी-सन्देशः वडोदरा नगरस्य अष्टादश तथा अहमदाबाद नगरस्य पञ्चदश विद्यालयेभ्यः प्रेषितः।
अस्मिन् ईमेल-सन्देशे प्रधानमन्त्री नरेन्द्र मोदी तथा गृहमन्त्री अमित शाह इत्येतौ लक्ष्यीकृत्य आपत्तिजनक-वाक्यानि लिखितानि, यथा— “गुजरात् खालिस्तानं भविष्यति” तथा “हिन्दुस्तानस्य खण्डनं भविष्यति” इति। एतादृशः समाह्वयः प्राप्तायां सर्वेषु विद्यालयेषु आकस्मिक-आतङ्कः उत्पन्नः, अभिभावकेषु अपि चिन्ता प्रसृता।
तत्क्षणमेव पुलिस-दलम्, अग्निशमन-विभागः, बम-निष्कासन-दलम् तथा श्वान-दलम् घटनास्थलं प्रेषिताः। सावधानतया विद्यालयाः रिक्तीकृताः, छात्राः सुरक्षितरूपेण स्वगृहं प्रेषिताः। विद्यालय-परिसराणां वाहनानां च सूक्ष्मा परीक्षा क्रियते। वडोदरा-नगरस्य उर्मि-विद्यालयस्य छात्रावासः अपि सुरक्षार्थं रिक्तीकृतः।
वडोदरा-जिलाशिक्षाधिकारी महेश-पाण्डे इत्यनेन उक्तं यत् नगरस्य जिलस्य च अष्टादश विद्यालयेभ्यः ईमेल-माध्यमेन बम-धमकी प्राप्ता। छात्राणां सुरक्षा प्राधान्येन ग्राहिता, सर्वे छात्राः सुरक्षितरूपेण गृहेषु प्रेषिताः। पुलिस-विभागेन प्रकरणस्य अन्वेषणं आरब्धम्। अभिभावकाः विद्यालय-प्रशासनं च मा उद्विजन्ताम्, सुरक्षा-नियमाः पालनीयाः इति अपि आह्वानं कृतम्। प्रशासनं पूर्णतया सतर्कम् अस्ति।
वडोदरा-पुलिस-आयुक्तः नरसिंह-कोमार इत्यनेन उक्तं यत् अध्यापकाः छात्राः च सुरक्षितरूपेण गृहेषु प्रेषिताः। अद्यपर्यन्तं नवसु स्थलेषु परीक्षा सम्पन्ना, अन्येषु स्थलेषु अन्वेषणं प्रवर्तते। साइबर-अपराध-थाने प्रकरणं पञ्जीकृत्य ईमेल-सन्देशस्य स्रोतः प्रेषकस्य च परिचयः ज्ञातुं प्रयासः क्रियते।
---------------
हिन्दुस्थान समाचार