Enter your Email Address to subscribe to our newsletters

-संयुक्तमोर्चा इत्यस्य प्रदेश कार्यसमितेः उपवेशनं सम्पन्नम्
रायपुरम् 16 फ़रवरीमासः (हि.स.)।
छत्तीसगढ-प्रदेशस्य मुख्यमन्त्री विष्णुदेवसायः उक्तवान् यत् भारतीयजनतापार्टीयाः सर्वेषां मोर्चानां प्रदेशस्तरात् बूथस्तरपर्यन्तं पदाधिकारीणः कार्यकर्तारश्च शासनस्य योजनाः तथा ‘मोदी-गारण्टी’ इत्यस्य सफलताः जन-जनं प्रति प्रापयितुं सक्रियाः भवन्तु। अस्माकं लक्ष्यं वर्ष २०४७ पर्यन्तं ‘विकसित-भारत’ इत्यस्य संकल्पस्य पूरणम् अस्ति। सत्य-सेवा-भावनया सह अस्माभिः शक्तिशालिनः समृद्धशालिनः च भारतस्य निर्माणे स्वकीयां भूमिकां निर्वहणीया।
अद्य सोमवासरे राजधानी-स्थिते कुशाभाऊ-ठाकरे-परिसरे भाजपायाः प्रदेश-कार्यालये संयुक्त-प्रदेश-कार्यसमिति-सभायां सम्बोधनं कुर्वन् सायः सर्वान् नवनियुक्तान् पदाधिकारीन् अभिनन्द्य अवदत् यत् भाजपा विश्वस्य सर्वातिशय-विशाला राजनैतिक-पार्टी अस्ति, यस्य देशे १४ कोटि-कार्यकर्तारः, प्रदेशे च ६० लक्ष-सदस्याः ८० सहस्र-सक्रिय-कार्यकर्तारश्च सन्ति। युवा-मोर्चा, महिला-मोर्चा, किसान-मोर्चा, अनुसूचित-जाति-मोर्चा, अनुसूचित-जनजाति-मोर्चा, ओबीसी-मोर्चा, अल्पसंख्यक-मोर्चा-इत्यादीनां माध्यमेन समाजस्य सर्ववर्गं प्रति गमनं अस्माकं प्राथमिकता अस्ति।
मुख्यमन्त्री अवदत् यत् केवलं द्वाभ्यां वर्षाभ्यां वयं ‘मोदी-गारण्टी’ इत्यस्य अधिकांश-वचनानि पूर्णवन्तः। १८ लक्ष-प्रधानमन्त्री-आवासानां स्वीकृतिः दत्ता। अद्य प्रत्येक-पञ्चायते औसततः ३०० गृहाणि निर्मीयन्ते, १० लक्षाधिक-परिवाराणां गृहप्रवेशः सम्पन्नः। छत्तीसगढे प्रति-एकड २१ क्विण्टल-धानस्य क्रयः ३१०० रूप्यक-प्रति-क्विण्टल-दरेण क्रियते। होली-पर्वणः पूर्वं २५.२४ लक्ष-कृषकाणां खातेषु १०,००० कोटि-रूप्यकाधिकां अन्तर-राशिं निक्षेपयिष्यामः।
महिला-सशक्तीकरण-दृष्ट्या ‘महतारी-वन्दन-योजना’ अन्तर्गतं ७० लक्षाधिक-मातृभ्यः प्रति-मासं १००० रूप्यकाणि दीयन्ते। तेंदूपत्त्र-संग्राहकानां कृते ५५०० रूप्यक-पारिश्रमिकं, भूमिहीन-कृषकाणां कृते वार्षिकं १०,००० रूप्यकाणि प्रदीयन्ते। ‘मुख्यमन्त्री-तीर्थ-यात्रा-दर्शन’ योजना अपि आरब्धा। अस्माभिः एतासां योजनानां विषये जनान् अवगन्तुं प्रेरणीयम्, येन जन-संबन्धः अस्माकं प्रति सुदृढः भविष्यति। ‘पीएम-जन-मन-योजना’ माध्यमेन २४ सहस्र-कोटि-रूप्यक-प्रावधानतः जनजाति-क्षेत्राणां विकासः क्रियते। राज्यस्य नूतना उद्योग-नीतिः देश-विदेशयोः प्रशंसिता।
‘राष्ट्र-प्रथम’ इति भावनया सेवा-समर्पणेन च एव ‘विकसित-भारत’ निर्मीयते इति उक्तवान् भाजपा-क्षेत्रीय-संगठन-महामन्त्री अजय-जम्वालः। सः अवदत् यत् दलं अद्य केवलं देशस्य न, अपि तु विश्वस्य अपि प्रथम-संख्या-पार्टी अस्ति; किन्तु अस्माकं वास्तविकं लक्ष्यं भारतं शक्तिशालिनं, समृद्धशालिनं, आत्मनिर्भरं, ‘विश्वगुरु’ च कर्तुम्। प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वे भारतं शीघ्रं प्रगच्छति। २०४७ वर्षपर्यन्तं पूर्ण-विकसित-राष्ट्रत्वं प्राप्तुम् अस्माकं संकल्पः अस्ति। अस्मिन् पथे प्रत्येक-कार्यकर्तुः योगदानम् अनिवार्यम्। केन्द्र-सरकारस्य योजनाः प्रत्येक-गृहम् प्रति प्राप्नुवन्ति। केन्द्रे मोदी-नेतृत्व-सरकारस्य प्रदेशे विष्णुदेवसाय-नेतृत्व-सरकारस्य च कार्याणि प्रत्येक-गृह-गल्यां चर्चनीयानि।
भाजपा ‘कार्यक्रम-आधारित’ दलम् अस्ति, यत्र वर्षपर्यन्तं सेवा-कार्याणि प्रवर्तन्ते इति उक्तवान् प्रदेशाध्यक्षः किरणदेवः। सः मोर्चा-पदाधिकारीणां कार्यकर्तॄणां च संगठन-सुदृढीकरणाय आगामि-बजट-सत्र-सन्दर्भे च आवश्यक-दिशा-निर्देशान् दत्त्वा बौद्धिक-विकासं कार्यकौशलं च बलीकर्तुम् आग्रहं कृतवान्। १७ फरवरी-दिनात् प्रशिक्षण-वर्ग-कार्यशाला आरभ्यते, यत्र नूतन-कार्यकर्तारः भाजपायाः नीति-रीतिषु शिक्षां प्राप्स्यन्ति। केन्द्र-बजटानन्तरं अधुना छत्तीसगढ-बजटस्य क्रमः आगतः इति अपि तेन उक्तम्।
कार्यक्रमस्य संचालनं प्रदेश-महामन्त्री अखिलेश-सोनी तथा यशवन्त-जैन इत्याभ्यां कृतम्। संयुक्त-मोर्चा-प्रदेश-कार्यसमिति-सभायां प्रदेश-महामन्त्री डॉ. नवीन-मार्कण्डेयः, किसान-मोर्चा-प्रदेशाध्यक्षः आलोक-सिंह-ठाकुरः, महिला-मोर्चा-प्रदेशाध्यक्ष्या विभा-अवस्थी, युवा-मोर्चा-प्रदेशाध्यक्षः राहुल-टिकरिहा, ओबीसी-मोर्चा-प्रदेशाध्यक्षः अशोक-साहू, अनुसूचित-जाति-मोर्चा-प्रदेशाध्यक्षः डॉ. सनम-जाङ्गडे, अनुसूचित-जनजाति-मोर्चा-प्रदेशाध्यक्षः सत्यनारायण-सिंहः, अल्पसंख्यक-मोर्चा-प्रदेशाध्यक्षः मख्मूर-इकबालः इत्यादयः सर्वे मोर्चा-पदाधिकारीणः कार्यकर्तारश्च बहुसंख्यया उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार