मुख्यमन्त्री साय: अद्य मनेंद्रगढ-कोरिया–जनपदयो: प्रवासे
रायपुरनगरम्, १६ फरवरीमासः (हि.स.)। मुख्यमंत्री विष्णुदेव: साय: अद्य सोमवासरे मनेंद्रगढ-कोरिया–जनपदौ प्रवासाय गमिष्यति। तस्मात् पूर्वं मुख्यमंत्री प्रातः ११:३० वादने भारतीय–जनता–पक्षस्य प्रदेश–कार्यालये सभां करिष्यति। मध्याह्ने १ वादने मनेंद्रगढ–जन
मुख्यमंत्री विष्णुदेव साय


रायपुरनगरम्, १६ फरवरीमासः (हि.स.)। मुख्यमंत्री विष्णुदेव: साय: अद्य सोमवासरे मनेंद्रगढ-कोरिया–जनपदौ प्रवासाय गमिष्यति। तस्मात् पूर्वं मुख्यमंत्री प्रातः ११:३० वादने भारतीय–जनता–पक्षस्य प्रदेश–कार्यालये सभां करिष्यति।

मध्याह्ने १ वादने मनेंद्रगढ–जनपदाय प्रस्थानं करिष्यति। मध्याह्ने २ वादने मंगल–भवनस्य लोकार्पणं तथा भूमिपूजन–कार्यक्रमे सम्मिलितः भविष्यति। ततः सायंकाल ५ वादने कोरिया–जनपदाय प्रस्थानं करिष्यति, यत्र सायंकाले ७ वादने ओपन–एयर–चलचित्रालयस्य लोकार्पणेन सह बैकुंठपुरे अनेकेषु कार्यक्रमेषु अपि सम्मिलित: भविष्यति।

एवं मुख्यमंत्री साय: रात्रौ बैकुंठपुरे एव विश्रामं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता