Enter your Email Address to subscribe to our newsletters



-बॉलीवुड सिंगर्स मीत ब्रदर्स, खुशबू ग्रेवल, सलमान अली की गीतों पर झूमे श्रोता
कोरबा 16 फरवरी (हि.स.)।
छत्तीसगढराज्यस्य कोरबाजनपदे पालीमहोत्सव २०२६ इत्यस्य भव्यः शुभारम्भः रविवासरे रात्रौ उत्साहेन उमङ्गेन च सम्पन्नः। ऐतिहासिकस्य पालीशिवमन्दिरस्य पुण्यच्छायायां श्रोतारः सांस्कृतिकम् आध्यात्मिकं च आनन्दम् अनुभूतवन्तः।
मञ्चे बॉलीवुडक्षेत्रस्य प्रसिद्धगायकाः सलमान अली, खुशबू ग्रेवाल, मीत ब्रदर्स इत्यादयः चलचित्रगीतैः दर्शकानां मनांसि मोहितवन्तः। शिवभक्तः हंसराज रघुवंशी भगवतः भोलेनाथस्य आराधनया भक्तिमयं वातावरणं निर्मितवान्। श्रोतारः विविधसाङ्गीतिककार्यक्रमान् परमानन्देन अनुभूतवन्तः।
सलमान अली मधुरस्वरेण “देवा श्री गणेशा”, “तेरी दीवानी”, “सांसों की माला में सिमरूं मैं पी का नाम”, “रश्के कमर”, “कजरा मोहब्बत वाला” इत्यादीनि लोकप्रियगीतानि प्रस्तुतवान्। तस्य प्रस्तुतेः समये श्रोतारः उत्साहेन नृत्यन्तः सहभागितां कृतवन्तः तथा तालध्वनिभिः कलाकारान् प्रोत्साहितवन्तः।
खुशबू ग्रेवाल तथा मीत ब्रदर्स अपि हिन्दीचलचित्रसंगीतस्य अनेकानि गीतानि प्रस्तुतवन्तौ। तयोः गीतप्रस्तुतिषु भावतालयोः अद्भुतः समन्वयः दृष्टः। श्रोतारः सहगायनेन तालध्वनिभिः च तयोः कार्यक्रमं स्मरणीयं कृतवन्तः। सर्वे कलाकाराः उक्तवन्तः यत् पालीमहोत्सवे प्रस्तुतेः एषः तेषां प्रथमः अवसरः आसीत्, अत्रत्यभाषा, संस्कृति, जनानां व्यवहारश्च तेषां अत्यन्तं रोचते इति। ते जनपदप्रशासनस्य विशेषं धन्यवादं प्रदत्तवन्तः।
महोत्सवे हंसराज रघुवंशी शिवभक्तिगीतैः वातावरणं पूर्णतया भक्तिमयं कृतवान्। “ऐसा डमरू बजाय भोलेनाथ ने”, “मेरा भोला है भण्डारी” इत्यादिषु गीतिषु श्रद्धाभक्त्योः गाम्भीर्यं स्पष्टतया अभवत्। तस्य मधुरस्वरः भावपूर्णप्रस्तुतिश्च दर्शकानां हृदयेषु आस्थातरङ्गान् उत्पन्नवन्तौ। भक्तिमयभजनैः महोत्सवः पावनः शान्तिमयश्च जातः, येन उपस्थिताः जनाः शिवभक्तौ निमग्नाः अभवन्।
राष्ट्रियस्तरीयकलाकारैः सह स्थानीयकलाकाराः अपि मनोहरकार्यक्रमान् प्रस्तुतवन्तः। तैः पारम्परिकनृत्यानि लोकगीतानि सांस्कृतिकप्रस्तुतयश्च प्रदर्शिताः, येन छत्तीसगढस्य समृद्धा सांस्कृतिकपरम्परा सजीविता अभवत्। स्थानीयकलाकाराणां प्रस्तुति: महोत्सवं क्षेत्रीयगौरवस्य प्रतीकं कृतवती। तेषां गीतनृत्याभिनयैः दर्शकाः उत्साहिताः अभवन्, तालध्वनिनादैः च महोत्सववातावरणं अधिकं जीवन्तं जातम्।
---------------
हिन्दुस्थान समाचार