Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 16 फरवरीमासः (हि.स.)।केन्द्रीयगृहमन्त्री अमित शाह तथा दिल्लीमुख्यमन्त्री रेखा गुप्ता दिल्लीपुलिसस्य एकोनाशीतितम-स्थापनादिवसस्य अवसरं प्रति पुलिसकर्मिभ्यः शुभाशंसाः प्रदत्तवन्तौ तथा तेषां साहसं समर्पणं च प्रशंसितवन्तौ।
केन्द्रीयगृहमन्त्री अमितशाहः स्वस्य सामाजिकमाध्यमे ‘एक्स’ इत्यत्र उक्तवान् यत् दिल्लीपुलिसस्य जवानाः अटूटसमर्पणेन जनसेवायां जनसुरक्षायां च अनुकरणीयमानकानि स्थापितवन्तः। कर्तव्यपङ्क्तौ सर्वोच्चबलिदानं दत्तवन्तः ये शहीदाः, तेषां प्रति सः भावपूर्णां श्रद्धाञ्जलिं समर्पितवान् तथा तेषां योगदानं राष्ट्राय अमूल्यम् इति अभिहितवान्।
दिल्लीमुख्यमन्त्री रेखागुप्ता दिल्लीवासिनां सुरक्षायाः विश्वासस्य च प्रतीकरूपां दिल्लीपुलिसस्य सर्वान् वीरान् जवानान्, कर्मिणः तथा तेषां परिवारजनान् शुभकामनाः प्रदत्तवती। सा उक्तवती यत् ‘शान्तिः, सेवा, न्यायः’ इति ध्येयवाक्यं आत्मसात्कृत्य दिल्लीपुलिसः प्रत्येकस्मिन् चुनौतीपूर्णे परिस्थितौ अदम्यसाहसं कर्तव्यनिष्ठां च प्रदर्शितवती।
मुख्यमन्त्री उक्तवती यत् राजधानीसुरक्षायां नागरिकसेवायां च पुलिसकर्मिणां निरन्तरः परिश्रमः समर्पणं च अस्माकं सर्वेषां गौरवस्य विषयः अस्ति। सा अपि उक्तवती यत् दिल्लीपुलिसस्य अप्रतिमसेवाभावं समग्रा दिल्ली हृदयेन नमनं करोति।
--------------
हिन्दुस्थान समाचार