रक्षा मंत्रिणो विमान वैज्ञानिकेभ्यः 6तमायाः प्रजातेः इंजनसंयंत्रस्य तकनीकीं विकसितां कर्तुम् आह्वानम्
- युद्धविमानानां तकनीक्या सिविल एविएशन इत्यस्य जगति आनेतुं शक्यते क्रांतिः नवदिल्ली, 16 फरवरीमासः (हि.स.)। भारतदेशे अद्यापि युद्धविमानयानानां इञ्जिननिर्माणयोजना पूर्णतया सफलतां न प्राप्तवती सति रक्षामन्त्री राजनाथसिंहः अद्य अवदत् यत् अस्माभिः भ
बेंगलुरु में गैस टरबाइन रिसर्च एस्टेब्लिशमेंट के एक कार्यक्रम को संबोधित करते रक्षा मंत्री


- युद्धविमानानां तकनीक्या सिविल एविएशन इत्यस्य जगति आनेतुं शक्यते क्रांतिः

नवदिल्ली, 16 फरवरीमासः (हि.स.)। भारतदेशे अद्यापि युद्धविमानयानानां इञ्जिननिर्माणयोजना पूर्णतया सफलतां न प्राप्तवती सति रक्षामन्त्री राजनाथसिंहः अद्य अवदत् यत् अस्माभिः भविष्यस्य दिशि अपि दृष्टिः क्षेपणीया। अधुना वयं केवलं पञ्चमपीढीयइञ्जिनपर्यन्तं सीमिताः न भवितुमर्हामः, यतः एषा कालस्य आवश्यकता अस्ति। अस्माभिः षष्ठमपीढीयउन्नतप्रौद्योगिकीनां विकासः अपि शीघ्रमेव आरभणीयः। विश्वे प्रौद्योगिकी शीघ्रं परिवर्तते। कृत्रिमबुद्धिः, यन्त्राधिगमः, नूतनसामग्रीणां प्रयोगश्च वर्धते। अस्माभिः तेषु अग्रे स्थातव्यम्।

रक्षामन्त्री सोमवासरे बेङ्गलूरुनगरे गैसटरबाइनअनुसन्धानसंस्थायाः कार्यक्रमे सम्बोधनं कुर्वन् अवदत् यत् आगामिकाले नागरविमानयाने अधिकवेगेन विस्तारः भविष्यति। भारतः जगतः शीघ्रतमवर्धमानविमाननबाजाराणां मध्ये अन्यतमः अस्ति। अतः नागरविमानयानक्षेत्रे क्रियमाणाः प्रयोगाः प्रत्यक्षतया उपयोगिनः भविष्यन्ति। यदा वयं रक्षाक्षेत्रे अनुसन्धानम् इञ्जिनविकासं च चिन्तयामः, तदा तस्य महत्त्वं केवलं सैन्यप्रयोगपर्यन्तं न सीमितम्। कस्यापि जटिलप्रौद्योगिक्याः महत्त्वं तस्य दीर्घगामिफलितेषु निहितम् अस्ति।

सः वैज्ञानिकान् उद्दिश्य अवदत् यत् या प्रौद्योगिकी अद्य युद्धविमानार्थं विकसित्यते, सा एव श्वः नागरविमानयानजगति क्रान्तिं जनयितुं शक्नोति। यूयं ये उच्चतापसहनसमर्थान् समिश्रसामग्रीन् निर्मथ, ते विद्युत्केन्द्रेषु अन्तरिक्षयानिषु च अपि उपयुज्येरन्।

सः पुनरपि अवदत् यत् यदि कस्यचित् इञ्जिनस्य विकासे पञ्चविंशतिवर्षाणि व्यतीयन्ते, तर्हि भारतस्य साम्प्रतिकरणनीतिकआवश्यकताः महत्वाकाङ्क्षाश्च दृष्ट्वा एवं मन्यध्वम् यत् भवतां विंशतिवर्षाणि पूर्वमेव समाप्तानि, अधुना केवलं पञ्चवर्षाणि अवशिष्टानि। एषा न आकस्मिकविचारणा, किन्तु एकम् आव्हानम् अस्ति। अस्माभिः एतेषु पञ्चवर्षेषु तत् कार्यं साधनीयम्, यत् अन्ये देशाः विंशतिवर्षेषु साधयन्ति।

अधुना ब्रिटेनदेशेन सह एयरोइञ्जिनविकासार्थं संयुक्ताध्ययनं प्रवर्तते, यत् उत्तमः उपक्रमः अस्ति। फ्रांसदेशेन सह अपि राष्ट्रियएयरोइञ्जिनमिशनअन्तर्गतं कार्यं आरब्धम्। उभौ अपि देशौ एयरोइञ्जिनप्रौद्योगिक्यां अग्रगण्यौ स्तः। तयोः सह सहयोगः अस्मभ्यं नूतनप्रौद्योगिकीअधिगमस्य अवसरं दास्यति, अपि तु गतदशकेषु ताभ्यां अनुभूतानाम् आव्हानानाम् अवगमने सहायं करिष्यति।

रक्षामन्त्री अवदत् यत् वयं ऐतिहासिकपरिवर्तनकालं अनुभवन्तः स्म, यदा सम्पूर्णविश्वस्य दृष्टिः भारतस्य उपरि निबद्धा अस्ति। सर्वे देशाः आत्मनिर्भरभारतउपक्रमे सहभागित्वं कर्तुम् इच्छन्ति। अतः अस्माकं समीपे बहवः विकल्पाः सन्ति। तेषां समुचितोपयोगेन अस्माभिः स्वकीयाः प्रौद्योगिकक्षमताः अधिकं सुदृढाः करणीयाः।-------------

हिन्दुस्थान समाचार