Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 16 फरवरीमासः (हि.स.)। भारतीय निर्वाचन आयोगेन (ईसीआई) सोमवासरे दिल्लीस्थिते कॉमनवेल्थ गेम्स स्पोर्ट्स कॉम्प्लेक्स ‘वार्षिक-खेल-सप्ताह 2026’ इत्यस्य आरम्भः कृतः। अस्य कार्यक्रमस्य उद्घाटनं मुख्यनिर्वाचनायुक्तेन ज्ञानेश कुमार कृतम्।
मुख्यनिर्वाचनायुक्तः प्रतिभागिनः सम्बोधयन् उक्तवान् यत् खेलभावना लोकतन्त्रस्य सुदृढतया सह सम्बद्धा अस्ति। तेन उक्तं यत् खेलस्य निर्वाचनस्य च आधारशिला समानैव अस्ति। पारदर्शिता, दायित्वबोधता, निष्पक्षता इत्यादयः ये मूल्याः खेलान् परिभाषयन्ति, ते एव भारतीय-निर्वाचन-प्रक्रियायाः अपि मूलस्तम्भाः सन्ति। सः सर्वान् अधिकारिणः कर्मचारिणः च अस्मिन् आयोजने पूर्णोत्साहेन सहभागितुं प्रोत्साहितवान्।
ईसीआई-रिक्रिएशन-क्लबस्य पक्षतः आयोजिते अस्मिन् वार्षिक-खेल-सप्ताहे द्विसप्ततिः महिलाः सहिताः त्रिशताधिकाः त्र्यशीति (383) प्रतिभागिनः सहभागिनः सन्ति। अस्मिन् आयोजने सप्त प्रमुख-खेलाः— शतरंजः, कैरमः, टेबल-टेनिसः, बैडमिंटनम्, क्रिकेट्, फुटबॉल् तथा एथलेटिक्स्— एतेषां त्रिचत्वारिंशत् (43) वर्गेषु स्पर्धाः आयोज्यन्ते। एथलेटिक्स्-अन्तर्गतं 100, 200, 400, 800 मीटर-धावन-स्पर्धाः पुरुष-महिला-वर्गयोः विविध-आयु-श्रेणीषु भविष्यन्ति।
एषः आयोजनः सप्ताहपर्यन्तं प्रवर्तिष्यते, यस्मिन् विविध-आयु-वर्गेषु पुरुषाः महिलाः च स्व-क्रीडा-प्रतिभां प्रदर्शयिष्यन्ति।
----------------
हिन्दुस्थान समाचार