विशाखापत्तनम–नगरे बहुराष्ट्रीयः समुद्री–अभ्यासः आरब्धः, ‘मिलन–ग्रामस्य’ उद्घाटनम्
— हिन्द–महासागर–क्षेत्रे समुद्री–सहयोगं सुरक्षां च प्रवर्धयितुम् अभ्यासस्य लक्ष्यं नवदिल्ली, १६ फरवरीमासः (हि.स.)।भारतीय–नौसेनायाः बहुराष्ट्रीयः समुद्री–अभ्यासः ‘मिलनम्’ अद्य विशाखापत्तनम–नगरे आरब्धम् अस्ति, यत् २५ फरवरीमासपर्यन्तं प्रवर्तिष्यते।
विशाखापत्तनम में 'मिलन विलेज' का उद्घाटन करते फ्लैग ऑफिसर कमांडिंग-इन-चीफ वाइस एडमिरल संजय भल्ला ने किया


— हिन्द–महासागर–क्षेत्रे समुद्री–सहयोगं सुरक्षां च प्रवर्धयितुम् अभ्यासस्य लक्ष्यं

नवदिल्ली, १६ फरवरीमासः (हि.स.)।भारतीय–नौसेनायाः बहुराष्ट्रीयः समुद्री–अभ्यासः ‘मिलनम्’ अद्य विशाखापत्तनम–नगरे आरब्धम् अस्ति, यत् २५ फरवरीमासपर्यन्तं प्रवर्तिष्यते। भारतीय नौसेना–अन्तर्गतया पूर्वी–नौसेना–कमान्डेन अस्मिन् अन्ताराष्ट्रिय–अभ्यासे सहभागी–नौसेनानां कृते ‘मिलन–ग्रामः’ (Milan Village) निर्मितः, यस्य उद्घाटनं फ्लैग–ऑफिसर–कमाण्डिङ्–इन–चीफ् संजय भल्ला–महाशयेन कृतम्। अस्य अभ्यासस्य मुख्यं उद्देश्यं हिन्द–महासागर–क्षेत्रे समुद्री–सहयोगं तथा सुरक्षा–समन्वयं प्रवर्धयितुम् अस्ति।

नौसेनाया: कथनानुसारं, पूर्वानुभवान् दृष्ट्वा ‘मिलन–ग्रामः’ निर्मितः, यत्र अस्य अभ्यासस्य निमित्तं आगतानां ७० अधिक–देशानां प्रतिनिधीनां तथा नौसेना–कर्मिणां मध्ये सौहार्द–भ्रातृत्व–भावः वर्धिष्यते। अयं ग्रामः विविध–देशानां मध्ये सामाजिक–सांस्कृतिक–विनिमयस्य केन्द्ररूपेण कार्यं करिष्यति, येन व्यावसायिक–सीमातः परं परस्पर–सम्बन्धः दृढीभवति। अत्र भारतीय–परम्पराया: समृद्धं दृश्यं प्रदर्श्क्षते; स्थानिक–कलाकारैः लोक–नृत्यानि तथा भारतस्य जीवन्त–कलात्मक–परम्परां दर्शयन्ति सांस्कृतिक–दलानि अपि प्रस्तुतानि भविष्यन्ति।

‘मिलन–ग्रामे’ नौसेना–स्मारक–वस्तूनि, हस्तशिल्प–हस्तकरघा–उत्पादाश्च प्रदर्श्यन्ते। तदतिरिक्तं आगन्तुकानां कृते भारतस्य विविध–प्रदेशीय–रुचयः स्वादाश्च उपलब्धाः भविष्यन्ति। पूर्वी–नौसेना–कमान्डरस्य फ्लैग–ऑप अधिकारी–कमाण्डिङ्–इन–चीफ अवदत् यत् ‘मिलन–ग्रामः’ भ्रातृत्वस्य सांस्कृतिक–सम्बन्धस्य च भावं प्रतिपादयति, येन व्यावसायिक–उद्देश्यानि अपि सिद्ध्यन्ति। तेन उक्तं यत् विशाखापत्तनमे नौसेनया आयोज्यमानानां नानाविधानां कार्यक्रमाणां प्रारम्भः अपि अत्र भविष्यति—समुद्री–अभ्यासः ‘मिलन’, अन्ताराष्ट्रियः फ्लीट्–रिव्यूः, तथा नौसेना–प्रमुखानां सम्मेलनं—एते सर्वे भारतस्य ऐतिहासिक–समुद्री–सम्बन्धस्य महत्त्वपूर्णं अङ्गं भविष्यन्ति।

नौसेनाया: कैप-अधिकारी विवेक मधवाल अवदत् यत् हिन्द–प्रशान्त–क्षेत्रे बहुराष्ट्रीयः समुद्री–अभ्यासः ‘मिलन’ विश्वस्य विविध–नौसेनाः एकत्र आनयिष्यति, येन अन्तर–कार्य–समन्वयः (Interoperability), समुद्री–डोमेन–अवेयरनेसः, तथा सामूहिक–प्रतिक्रिया–क्षमताः दृढीभवन्ति। अभ्यासस्य बन्दरगाह–चरणे समुद्री–चरणे च पनडुब्बी–रोधन–युद्धम्, वायु–रक्षा, अन्वेषण–उद्धार–कार्याणि, सहकारी–सुरक्षा–अभियानानि च इत्यादिनी जटिल-समुद्री–सञ्चालनाः केन्द्रीकृताः भविष्यन्ति। एतेन मुक्त–उद्घाटित–समावेशी–नियमाधारित–समुद्रान् प्रति सहभागी–नौसेनानां सामूहिक–प्रतिबद्धता दृढीभवति, तथा सांस्कृतिक–विनिमयः, मैत्री–सेतु–निर्माणं, समुद्री–सहभागिता–विकासश्च सुदृढः भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता