Enter your Email Address to subscribe to our newsletters

नैनीतालनगरम्, १६ फरवरीमास: (हि.स.)। कुमाऊँ–विश्वविद्यालयस्य चतुर्वर्षीये एकीकृते शिक्षक–शिक्षा–विभागे सोमवासरे संस्कृति ग्रुप ऑफ स्कूल–संस्थायाः संस्थापिका तथा निदेशिका, मूलतः अल्मोड़ा–निवासिनी, कुमाऊँ–विश्वविद्यालयस्य पूर्वा छात्रा च देवयानी मुनगली प्रशिक्षु–शिक्षकान् सम्बोधयन्ती वर्तमान–शिक्षा–परिदृश्ये मानवीय–सम्बन्धानां सुदृढीकरणस्य आवश्यकतां विशेषतया प्रतिपादितवती।
कार्यक्रमस्य शुभारम्भः विशिष्टातिथ्या श्रीमती–मुनगल्या, कुमाऊँ–विश्वविद्यालयस्य कुलपतिना प्रो.डी.एस.रावत:, संकायाध्यक्षेन प्रो.अतुल: जोशी तथा विभागाध्यक्षेन डॉ.अशोक: उप्रेतिना सह दीप–प्रज्वलनेन कृतः। अनन्तरं स्व–सम्बोधने श्रीमती–मुनगली अवदत् यत् तीव्र–प्रौद्योगिकी–विकासस्य काले शिक्षक–शिक्षार्थिनोः मध्ये मानवीय–सम्बन्धानां दृढीकरणं अत्यावश्यकम्। सा शिक्षकम् “नाविक”–उपमानं दत्त्वा अवदत् यत् परिवर्तमाने सामाजिक–परिवेशे सः विद्यार्थिनः सम्यग्–दिशां दर्शयन् मार्गदर्शकः भवति। भावि-शिक्षकेभ्यः सा आह्वानं कृतवती यत् ते स्व–क्षेत्रीय–भाषया संस्कृत्या च सम्बद्धाः तिष्ठेयुः, आधुनिक–प्रौद्योगिकीं च दासत्वेन न स्वीकुर्वन्तु, अपि तु विकासस्य साधनत्वेन उपयोगं कुर्वन्तु।
उल्लेखनीयं यत् श्रीमती–मुनगली त्रयोदश–पुस्तकानां लेखिका अस्ति; तासां कतिपया उत्तराखण्ड–राज्यस्य विद्यालयीय–पाठ्यक्रमेषु समाविष्टाः सन्ति। सा उत्तराखण्ड–राज्य–साहित्य–पुरस्कारम्, इण्डियन–एजुकेशन–एक्सीलेंस–पुरस्कारम्, प्रो.इन्दिरा–पारिख–एजुकेशन–लीडर्स–साइटेशनम्, तथा टाइम्स–ऑफ–इण्डिया–पावर–विमेन-सम्मानम् इत्यादिभिः सम्मानिता अस्ति। महाराष्ट्रे सञ्चालितस्य संस्कृति–ग्रुप–ऑफ–स्कूल–संस्थायाः स्थापनात् अद्यावधि स्व–यात्रां तथा तत्रागताः समस्या: अपि तया सहसा सहभाग: कृत:।
सम्बोधनानन्तरं संवाद–सत्रम् आयोजितम्, यस्मिन् प्रशिक्षु–शिक्षकैः शिक्षण–अधिगम–सम्बद्धाः विविधाः प्रश्नाः पृष्टाः। श्रीमती–मुनगल्या वास्तविक–उदाहरणैः तेषां समाधानानि प्रदर्शितानि। सा प्रशिक्षुजनान् पुणे–नगरे संस्कृति–ग्रुप–ऑफ–स्कूल–संस्थायां शैक्षिक–भ्रमणाय इण्टर्नशिप्–हेतोश्च आमन्त्रितवती। कार्यक्रमस्य अन्ते विभागाध्यक्षेन डॉ.अशोक–उप्रेतिना धन्यवाद–ज्ञापनं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता