प्रधानमन्त्री मोदी श्व: मुम्बई–नगरमध्ये फ्रान्स–राष्ट्रपति इमैनुएल् मैक्रो इत्यनेन सह संवादं करिष्यति
नवदिल्ली, १६ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १७ फरवरीमासे मुम्बई–नगरमध्ये फ्रान्स–राष्ट्रपति: इमैनुएल् मैक्रो इत्यनेन सह साक्षात्कारं करिष्यति। उभौ नेतारौ भारत–फ्रान्सदेशयो: रणनैतिक–सहभागितासमीक्षां करिष्यत: तथा क्षेत्रीय–वैश्विक विषय
प्रधानमंत्री नरेन्द्र मोदी और फ्रांस के राष्ट्रपति इमैनुएल मैक्रों (फाइल फोटो)।


नवदिल्ली, १६ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १७ फरवरीमासे मुम्बई–नगरमध्ये फ्रान्स–राष्ट्रपति: इमैनुएल् मैक्रो इत्यनेन सह साक्षात्कारं करिष्यति। उभौ नेतारौ भारत–फ्रान्सदेशयो: रणनैतिक–सहभागितासमीक्षां करिष्यत: तथा क्षेत्रीय–वैश्विक विषयेषु चर्चां अपि करिष्यत:। तदर्थं भारत–फ्रान्स नवोन्मेष–वर्षं २०२६ अपि उद्घाट्यते।

प्रधानमन्त्रिण: कार्यालयस्य अनुसारं, फ्रान्स–राष्ट्रपति मैक्रो १७–१९ फरवरीमासे भारतस्य अधिकारिक–प्रवासे स्थास्यति। स: एआई–इम्पैक्ट–सम्मेलनस्य अपि अंशभूः भविष्यति। मुम्बई–नगरमध्ये प्रधानमन्त्रिणा सह द्विपक्षीय–शिखर–वार्तां अपि आयोजयिष्यते। उभयो: सभा १७ फरवरीमासे मध्याह्ने मुम्बईनगरे भविष्यति। अस्मिन् साक्षात्कारे उभयदेशयोः सहयोगं दृढीकर्तुं चर्चा भविष्यति। नवीनेषु तथा उदयमानेषु क्षेत्रेषु सहभागितावर्धनाय अपि विचारः भविष्यति।

सायंकाले प्रधानमन्त्री मोदी राष्ट्रपति: मैक्रो च भारत–फ्रान्स-नवोन्मेष–वर्षं २०२६ इत्यस्य उद्घाटनं करिष्यत:। अस्मिन् अवसरे उभयदेशस्य उद्योग–क्षेत्रं, स्टार्टअप, शोधकाः नवोन्मेषकश्च उपस्थिताः भविष्यन्ति। उभौ नेतारौ तान् अपि संबोधयिष्यत:।

हिन्दुस्थान समाचार / अंशु गुप्ता