मध्य प्रदेश–विधानसभायाः वित्त–सत्रं ‘वन्दे मातरम्’–गायनेन आरब्धम्; राज्यपालस्य अभिभाषणकाले विपक्षस्य कोलाहलः
भोपालनगरम्, १६ फरवरीमासः (हि.स.)। मध्यप्रदेश–विधानसभायाः वित्त–सत्रस्य सोमवासरे ‘वन्दे मातरम्’–गीतस्य समग्र–षट्–छन्द–गायनेन शुभारम्भः अभवत्। ततः राज्यपालः मंगुभाई पटेल: स्वस्य अभिभाषणं दत्तवान्। अस्मिन् काले विपक्ष–सदस्यैः तीव्रः कोलाहलः कृतः, येन
विधानसभा के बजट सत्र में राज्यपाल पटेल अभिभाषण पढ़ते हुए


राज्यपाल के विधानसभा पहुंचने से पहले उनका इंतजार करते हुए मुख्यमंत्री समेत अन्य नेता


भोपालनगरम्, १६ फरवरीमासः (हि.स.)। मध्यप्रदेश–विधानसभायाः वित्त–सत्रस्य सोमवासरे ‘वन्दे मातरम्’–गीतस्य समग्र–षट्–छन्द–गायनेन शुभारम्भः अभवत्। ततः राज्यपालः मंगुभाई पटेल: स्वस्य अभिभाषणं दत्तवान्। अस्मिन् काले विपक्ष–सदस्यैः तीव्रः कोलाहलः कृतः, येन सदनस्य कार्यवाही मङ्गलवासरस्य प्रातः ११–वादनपर्यन्तं स्थगिता।

वित्त–सत्रस्य प्रारम्भे सदने पक्ष–विपक्ष–सदस्यैः विभिन्न–व्यक्तीनां नेतॄणां च निधन–स्मरणार्थं श्रद्धाञ्जलिः अपि अर्पिता। अनन्तरं राज्यपालः स्वस्य अभिभाषणे राज्य–सर्वकारस्य विकास–उपलब्धीः, जन–कल्याण–योजनाभिः जातान् परिवर्तनांश्च उल्लिखितवान्। सः २०२३–वर्षीय–संकल्प–पत्रे कृतानां वचनानां पालन–स्थितिं तथा अग्रिम–लक्ष्याणां विवरणं च प्रदत्तवान्।

अभिभाषणस्य आरम्भे राज्यपालः अवदत् यत् देशः तस्मिन् सन्धि–क्षणे स्थितः अस्ति, यं प्रधानमन्त्री नरेन्द्रमोदी ‘अमृत–कालः’ इति संज्ञां दत्तवान्। उद्योग–अनुकूल–परिवेशः, भोपाल–नगरे आयोजितः ‘ग्लोबल–इन्‍वेस्टर्स–समिट्’, २०४७–वर्षपर्यन्तं मध्यप्रदेशं द्वि–ट्रिलियन–डॉलर–अर्थव्यवस्थारूपेण विकसितुं लक्ष्यं, २०२६–वर्षस्य ‘कृषि–वर्ष’–रूपेण आचरणम्, ‘पी.एम.जनमन–योजना’–अन्तर्गतं १.३५–लक्ष–आवास–निर्माणम्, उज्जयिनीनगरे शिप्रा–नद्याः प्रदूषण–मुक्तीकरणम्, तथा नूतन–शिक्षा–नीत्याः अन्तर्गतं कृतानि कार्याणि—एतानि सर्वाणि सः विशेषतया उल्लिखितवान्।

एतस्मिन्नेव काले विपक्ष–नेता उमंगसिंघार: मध्ये हस्तक्षेपं कृत्वा आरोपं कृतवान् यत् नल–जल–योजनायाः विषयः तथा इन्दौर–नगरे दूषित–जलेन जात–मृत्यवः अभिभाषणे न समाविष्टाः। ततः विपक्षेन घोषणा: आरब्धा:। कोलाहलस्य मध्येऽपि राज्यपालः स्वम् अभिभाषणं निरन्तरं कृत्वा समाप्तवान्।

अभिभाषणानन्तरं कृतज्ञता–ज्ञापन–प्रस्तावः प्रस्तुतः भविष्यतीति सूचना दत्ता। काङ्ग्रेस–विधायकः सोहनलाल: वाल्मीकि आरोपं कृतवान् यत् अभिभाषण–काले तस्मै तस्य प्रतिलिपिः न प्रदत्ता। राज्यपालस्य सदनात् निर्गमनानन्तरं कार्यवाही पुनरारब्धा, यत्र विधानसभाध्यक्षः नरेन्द्रसिंहतोमर: अवदत्—यत् यः भागः पठितुं न शक्यः, सः पठित इति एव मान्यः भविष्यति। ततः विधानसभाध्यक्षेन सदनस्य कार्यवाही मङ्गलवासरे प्रातः ११–वादनपर्यन्तं स्थगिता।

उल्लेखनीयं यत् मध्यप्रदेश–विधानसभायाः वित्तसत्रं ६ मार्चमासपर्यन्तं प्रवर्तिष्यते। अस्मिन् १९–दिवसीय–सत्रे आहत्य १२ सभा: भविष्यन्ति। १८ फरवरीमासे उपमुख्यमन्त्री तथा वित्तमन्त्री जगदीश: देवड़ा वित्त–वर्ष २०२६–२७–सम्बद्धं वार्षिक–वित्त–विवरणं प्रस्तोष्यति। एतत् वित्त–विवरणं पूर्णतया डिजिटल्–स्वरूपेण प्रस्तोष्यते। अस्य वर्षस्य वित्त–विवरणं प्रायः ४.८५–लक्ष–कोटि–रूप्यकाणां परिमाणस्य भवितुं शक्यते, यत् गतवर्षस्य ४.२१–लक्ष–कोटि–रूप्यकात् अधिकम्।

विधानसभा–सचिवालयेन सत्र–अधिसूचना–प्रकाशनानन्तरं अधुना यावत् १७५० तारांकित–प्रश्नाः, १७२८ अतारांकित–प्रश्नाः—एवं कुलं ३४७८ प्रश्न–सूचनाः प्राप्ताः। तदतिरिक्तं २३६ ध्यानाकर्षण–सूचनाः, १० स्थगन–प्रस्तावाः, ४१ अशासकीय–संकल्पाः, ८३ शून्यकाल–सूचनाश्च प्राप्ताः। मध्यप्रदेशस्य षोडश–विधानसभायाः एतत् नवमं सत्रं अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता