Enter your Email Address to subscribe to our newsletters

- वित्त मंत्री जगदीश देवड़ा 18 फरवरी तमे वर्षे करिष्यति पत्रविरहितम् आर्थिक सर्वेक्षणम्
भोपालम्, 16 फरवरीमासः (हि.स.)। मध्यप्रदेशविधानसभायाः बजटसत्रम् अद्य सोमवासरे आरभ्यते। अस्य सत्रस्य विषये सत्तापक्षः विपक्षश्च परस्परं परिवेष्टयितुं सम्यक् सज्जौ स्तः। अतः सत्रे कोलाहलस्य सम्भावना वर्तते।
प्रातः ११ वादने राज्यपालः मंगुभाई पटेल महोदयस्य अभिभाषणेन बजटसत्रस्य आरम्भः भविष्यति। अभिभाषणे राज्यपालः राज्यसरकारस्य उपलब्धयः कार्ययोजनाश्च प्रकाशयिष्यति। एतत् बजटसत्रं ६ मार्च पर्यन्तं प्रवर्तिष्यते। अस्मिन् एकोनविंशतिदिवसीये सत्रे सदनस्य द्वादश उपवेशनानि भविष्यन्ति। अस्यावसरे १८ फरवरी दिने उपमुख्यमन्त्री तथा वित्तमन्त्री जगदीश देवडा राज्यसरकारस्य वित्तवर्षस्य २०२६ २७ वार्षिकबजटं प्रस्तुतयिष्यति।
अस्य वर्षस्य बजटं पूर्णतया डिजिटलरूपेण प्रस्तुतं भविष्यति। एतत् बजटं ४.८५ लक्षकोटिरूप्यकपर्यन्तं भवितुमर्हति, यत् गतवर्षस्य ४.२१ लक्षकोटिरूप्यकात् अधिकं भविष्यति।
मुख्यविपक्षदलं कांग्रेस इति दलं राज्यसरकारं बहुषु विषयेषु परिवेष्टयितुं सज्जम् अस्ति। इन्दौरनगरस्य भागीरथपुरा क्षेत्रे दूषितपेयजलप्रकरणम्, वर्धमानं ऋणभारः, विधिसुरक्षासम्बद्धविषयाः इत्यादयः प्रमुखाः भविष्यन्ति। अपरतः सरकारः अपि विपक्षस्य प्रत्युत्तरदाने सज्जा अस्ति। कांग्रेस दलं प्रदेशसरकारस्य त्रयाणां मन्त्रिणां कैलाश विजयवर्गीय, उपमुख्यमन्त्री राजेन्द्र शुक्ल, मन्त्री विजय शाह इत्येषां पदच्युतेः आग्रहं सदसि करिष्यति। अनेन विषये सदने कोलाहलः सम्भाव्यते।
२०२६ वर्षं कृषिवर्षम् इति घोषितत्वात् कृषि तथा ग्रामीणविकासे विशेषः केन्द्रितभावः भविष्यति। २०२८ वर्षे भवितव्यस्य सिंहस्थमहापर्वणः दृष्ट्या आधारभूतसंरचनायाः कृते अतिरिक्तनिधिप्रावधानानि अपि कर्तुं शक्यन्ते। सरकारस्य लक्ष्यं २०२८ पर्यन्तं बजटं ७ लक्षकोटिरूप्यकात् अधिकं कर्तुम् अस्ति।
अद्य विपक्षीयविधायकदलस्य अपि सभा भविष्यति। अस्मिन् सभायां बजटसत्रे सत्तापक्षं कथं परिवेष्टयितव्यमिति विषये रणनीतिः निर्धार्यते। विपक्षनेता उमंग सिंघार अवदत् यत् जनहितसम्बद्धविषयान् दृढतया सदसि उत्थापयितुं योजना निर्मीयते। राज्यसरकारे जातान् घोटालान्, निरन्तरं गृहीतान् ऋणान्, इन्दौरनगरस्य दूषितजलजनितमृत्यून्, कृषकानां हानिम्, युवानां रोजगारसमस्याः, आदिवासी दलितवर्गयोः प्रति वर्धमानान् अत्याचारान् च उत्थापयिष्यामः इति तेन उक्तम्।
विधानसभासचिवालयेन सूचितम् यत् सत्रस्य अधिसूचना निर्गतायाः अनन्तरं अद्यावधि तारांकितप्रश्नाः १७५०, अतारांकितप्रश्नाः १७२८, सर्वेषां मिलित्वा ३४७८ प्रश्नसूचनाः प्राप्ताः। ध्यानाकर्षणप्रस्तावाः २३६, स्थगनप्रस्तावाः १०, अशासकीयसंकल्पाः ४१, शून्यकालसूचनाः ८३ च प्राप्ताः।
उल्लेखनीयं यत् मध्यप्रदेशस्य षोडशी विधानसभायाः एतत् नवमं सत्रम् अस्ति।
हिन्दुस्थान समाचार