Enter your Email Address to subscribe to our newsletters

भोपाल, 16 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः अद्य सोमवासरे अपराह्णे त्रिवादने भोपालनगरे अत्याधुनिकसाइबरपंजीयनकार्यालयस्य लोकार्पणं करिष्यति। अस्मिन् अवसरि उपमुख्यमन्त्री तथा वित्तवाणिज्यकरमन्त्री जगदीश देवडा अपि उपस्थितो भविष्यति।
जनसम्पर्काधिकारी सन्तोष मिश्रः सूचितवान् यत् महानिरीक्षकपंजीयन तथा अधीक्षणमुद्रांक कार्यालयस्य पंजीयनभवने अरेराहिल्स क्षेत्रे एतत् साइबरपंजीयनकार्यालयस्य लोकार्पणं भविष्यति। एतत् कार्यालयं अत्याधुनिकमृदुभिरुपागमैः सुरक्षितसर्वरैः च सुसज्जितम् अस्ति, यत् दत्तांशस्य गोपनीयतां सुनिश्चित्य पंजीयनप्रक्रियां सरलां करिष्यति।
हिन्दुस्थान समाचार