Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम्, १६ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौर–जनपदे दुग्ध–उत्पादनस्य वृद्धिं तथा पशूनां स्वास्थ्य–संरक्षणं दृष्ट्वा “क्षीर–धारा–ग्राम–योजना” प्रारब्धा अस्ति। योजनायाः प्रभावी–क्रियान्वयनार्थं जनपदे व्यापकाः व्यवस्थाः कृताः सन्ति।
अस्मिन् विषये सोमवासरे उपायुक्तस्य शिवम–वर्मा–महाशयस्य अध्यक्षतायां जनपद–स्तरीया सभा आयोजिता। सभायां जनपद–पञ्चायतस्य मुख्य–कार्यपालन–अधिकारी सिद्धार्थ–जैनेन सह सम्बन्धित–विभागानां अधिकारिणः उपस्थिताः आसन्। सभायां उपायुक्तेन निर्देशाः दत्ताः यत् योजनायाः क्रियान्वयनं समयबद्ध–कार्यक्रमानुसारं सुनिश्चितं क्रियताम्, सर्वे विभागाः च परस्पर–समन्वयेन कार्यं कुर्वन्तु। स: अवदत् यत् जनपदे डेयरी–लाइवस्टॉक–अभियान–अन्तर्गतं पशुधनस्य पञ्जीकरणं क्रियते। “क्षीर–धारा–ग्राम–अभियान”–माध्यमेन दुग्ध–उत्पादन–वृद्ध्यर्थं व्यापकाः प्रयासाः प्रवर्तन्ते।
उपायुक्तेन उक्तं यत् पशूनां स्वास्थ्यं सुदृढं भवेत्, गुणवत्तापूर्णं चारा–प्रदानं सुलभं स्यात्, वैज्ञानिक–पद्धत्या उत्पादन–वृद्धये उपायाः अवलम्बनीयाः। पशूनां टीकाकरणे तथा प्रजाति–संशोधनेनापि विशेष–ध्यानं दातव्यमिति तेन निर्दिष्टम्। तेन अपि निर्दिष्टं यत् प्राकृतिक–कृष्या सम्बद्धाः कृषकाः पशुपालन–विभागस्य तथा उद्यानिकी–विभागस्य योजनाभिः अधिकतमं संयोज्यन्ताम्, येन तेषां अतिरिक्त–आय–अवसराः वर्धेरन् तथा पशुपालन–गतिविधयः अपि प्रोत्साहनं प्राप्नुयुः।
उपायुक्त: अवदत् यत् मुख्यमंत्रिण: निर्देशानुसारं जनपदे पशुपालन–आधारित–आजीविकायाः सशक्तीकरण–दिशि गम्भीरतया कार्यं क्रियते। सभायां योजनायाः क्रियान्वयन–रणनीतिः, लक्ष्य–साधनम्, तथा विभागीय–उत्तरदायित्वानां विषये विस्तृतं विमर्शः अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता