इन्दौरनगरम् - विद्यार्थीनां मानसिक–स्वास्थ्य–सुरक्षार्थं “यारियां – द फ्रेंड्स क्लब” अभियानस्य शुभारम्भः
इन्दौरनगरम्, १६ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौर–जनपदे प्रतियोगी–परीक्षाणां सज्जां कुर्वतां तथा विविध–कोचिंग–संस्थासु अध्ययरतानां विद्यार्थीनां मानसिक–स्वास्थ्यस्य, सामान्य–स्वास्थ्यस्य तथा जीवनशैली–सम्बद्ध–समस्यानां निराकरणाय पायलट–परियोजना
कलेक्टर शिवम वर्मा की अध्यक्षता में जिला सलाहकार समिति की बैठक


इन्दौरनगरम्, १६ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौर–जनपदे प्रतियोगी–परीक्षाणां सज्जां कुर्वतां तथा विविध–कोचिंग–संस्थासु अध्ययरतानां विद्यार्थीनां मानसिक–स्वास्थ्यस्य, सामान्य–स्वास्थ्यस्य तथा जीवनशैली–सम्बद्ध–समस्यानां निराकरणाय पायलट–परियोजनारूपेण “यारियां – द फ्रेंड्स क्लब” इति अभियानं प्रारब्धम् अस्ति।

अस्य अभियानस्य प्रभावी–क्रियान्वयनाय सोमवासरे शिवम वर्मा–महाशयस्य अध्यक्षतायां जनपद–सलाहकार–समितेः सभा आयोजिता। सभायां उपायुक्त: वर्मा अभियानस्य विस्तृतं विवरणं दत्त्वा कोचिंग–संस्थासु सञ्चालकान् प्रति अवदत् यत् ते विद्यार्थीनां चिन्ता–मुक्तये सकारात्मकं सुरक्षितं च वातावरणं निर्मापयेयुः, अभिभावकस्य भूमिकां वहन्तः विद्यार्थिभिः सह निरन्तरं संवादं कुर्वन्तु। आवश्यकता–समये विद्यार्थिभ्यः सहयोगः प्रदीयताम् तथा मानसिक–दृढीकरणाय सतत–परामर्शः (काउंसलिंग्) अपि क्रियताम्।

तेन उक्तं यत् अनेके प्रतियोगी–परीक्षार्थिनः स्वगृहात् दूरं वसन्तः छात्रावासेषु अथवा भाटकगृहेषु निवसन्ति, येन तेषां मानसिक–चिन्ता वर्धते। तादृशी परिस्थितौ उचितं मार्गदर्शनं, परामर्शं, भावनात्मक–सहयोगं च प्रदातव्यम्, येन ते चिन्तां निवार्य स्वलक्ष्यस्य दिशि अग्रे गच्छेयुः, समाजस्य सुजनाः भवेरन्, जीवनस्य वाञ्छितां सफलतां च प्राप्नुयुः।

उपायुक्त: वर्मा अपि अवदत् यत् जनपद–प्रशासनद्वारा शासकीय–छात्रावासेषु नोडल–अधिकारिणः नियुक्ताः सन्ति, ये समये–समये विद्यार्थिभिः सह मिलित्वा तेषां समस्यानां बोधं कृत्वा समाधानाय सहयोगं करिष्यन्ति। सभायां जनपद–पञ्चायतस्य मुख्य–कार्यपालन–अधिकारी सिद्धार्थः जैनः, मुख्य–चिकित्सा–स्वास्थ्य–अधिकारी डॉ.माधवः हसानी, विविध–कोचिंग–संस्थानां सञ्चालकाः, निदेशकाः तथा सम्बन्धिताः अधिकारिणः उपस्थिताः आसन्।

विद्यार्थिनां समस्यानां निराकरणाय १४४१६ इति हेल्पलाइन–संख्या अपि प्रचालिता अस्ति। उपायुक्त: कोचिंग–सञ्चालकान् प्रति अवदत् यत् सहायक–सेवया सह संस्थास्तरे प्रत्यक्ष–परामर्श–व्यवस्था अपि सुनिश्चितीक्रियताम्। तेन पुनः उक्तं यत् समाजस्य सर्वे बालकाः अस्माकं सामूहिक–उत्तरदायित्वानि सन्ति। ये विद्यार्थिन: मातापित्रोः दूरं स्थित्वा अध्ययनं कुर्वन्ति, तेषु कोचिंग–संस्थाभिः अभिभावकवत् व्यवहारः करणीयः तथा तेषां सर्वासां समस्यानां समाधानाय प्रयासः करणीयः, येन ते जीवनस्य पथे सफलाः भवेयु:।

सभायान नशा–मुक्तेः विषये अपि विशेष–ध्यानं दातव्यमिति उक्तं, शिक्षण–संस्थासु निरन्तरं जागरूकता–अभियानानि चालनीयानि इति च निर्देशः दत्तः। कोचिंग–संस्थान–प्रतिनिधिभिः अपि अभियानाय सकारात्मक–सहयोगस्य आश्वासनं दत्तम्।

हिन्दुस्थान समाचार / अंशु गुप्ता