मध्यप्रदेशः- राज्य निर्वाचन आयोगस्य स्थापना दिवस समारोहोऽद्य
- पूर्व मुख्यो निर्वाचनायुक्त रावतः भविष्यति मुख्यातिथिः भोपाल, 16 फरवरी (हि.स.)। मध्यप्रदेशराज्यनिर्वाचनआयोगस्य द्वात्रिंशत्तमः स्थापना दिवस समारोहः अद्य प्रातः एकादशवादनात् आरभ्य आयोज्यते। अस्य समारोहस्य मुख्य अतिथिः भारतनिर्वाचनआयोगस्य पूर्वमुख
मप्र निर्वाचन भवन


- पूर्व मुख्यो निर्वाचनायुक्त रावतः भविष्यति मुख्यातिथिः

भोपाल, 16 फरवरी (हि.स.)। मध्यप्रदेशराज्यनिर्वाचनआयोगस्य द्वात्रिंशत्तमः स्थापना दिवस समारोहः अद्य प्रातः एकादशवादनात् आरभ्य आयोज्यते। अस्य समारोहस्य मुख्य अतिथिः भारतनिर्वाचनआयोगस्य पूर्वमुख्यनिर्वाचनायुक्तः ओ पी रावत भविष्यति।

राज्यनिर्वाचनआयोगस्य सचिवः दीपकसिंहः अवदत् यत् समारोहसमये पूर्वमुख्यनिर्वाचनायुक्तः रावत महोदयः “वन नेशन वन इलेक्शन मध्ये स्थानीयनिर्वाचनस्य भूमिका” इति विषये व्याख्यानं दास्यति। पूर्वराज्यनिर्वाचनायुक्तः आर परशुराम “स्थानीयनिर्वाचने सुधारस्य चुनौतयः” इति विषये उद्बोधनं करिष्यति।

अतिरिक्ततया पत्रकारिताविद्यालयस्य विभागाध्यक्षः नरेन्द्रकुमारसिंहः “जमीनी लोकतन्त्रे पारदर्शी निष्पक्षनिर्वाचनम्” इति विषये भाषणं दास्यति। अधिवक्ता सिद्धार्थसेठ “स्थानीयनिर्वाचने न्यायालयीनपाठाः” इति विषये उद्बोधनं करिष्यति।

आयोगस्य सचिवः सिंहः उक्तवान् यत् समारोहसमये आयोगस्य निर्वाचनसाहित्य ई बुक इत्यस्य विमोचनं तथा प्रेक्षा मोबाइल ऐप इत्यस्य शुभारम्भः अपि भविष्यति। स्थानीयनिर्वाचने उत्कृष्टकार्यं कृतवन्तः अधिकारी कर्मचारीभ्यः प्रशस्तिपत्राणि अपि वितरितानि भविष्यन्ति।

हिन्दुस्थान समाचार