Enter your Email Address to subscribe to our newsletters

- महाशिवरात्रेः द्वितीय दिने वर्षे केवलम् एकधा मध्याह्ने भवति बाबा महाकालस्य भस्म आरतीउज्जैनम्, 16 फरवरीमासः (हि.स.)। महाकालेश्वर ज्योतिर्लिंग इत्यस्मिन् मध्यप्रदेशस्य उज्जयिनी-नगरे स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे महाकालेश्वर महाशिवरात्रि-पर्वणि मन्दिरे चतु:प्रहर-पूजनाभिषेक-विशेषानुष्ठानानां सम्पन्नत्यानन्तरं सोमवासरे सेहरा अर्पितम्। अस्मिन् अवसरे वर्षे एकवारं मध्याह्ने भवती विशेषा भस्मारती अपि सम्पन्ना।
महाशिवरात्र्यां भगवान् महाकालः निरन्तरं चतुश्चत्वारिंशत् (४४) घण्टान् यावत् भक्तेभ्यः दर्शनं ददाति। अतः वर्षे एकवारं महाशिवरात्रेः द्वितीये दिने भस्मारती मध्याह्ने क्रियते। अस्मिन् वर्षे अपि शनिवासर-रविवासरयोः मध्ये रात्रौ द्वितीयप्रहरार्धे (२.३० वादने) मन्दिरद्वाराणि उद्घाटितानि। भस्मारत्याः अनन्तरं दर्शनक्रमः आरब्धः, यः सोमवासरे मध्याह्नपर्यन्तं (१२ वादनपर्यन्तं) अनवरतः आसीत्। ततः पुनः भस्मारती सम्पन्ना।
महाशिवरात्रेः द्वितीये दिने भगवान् महाकालस्य वररूपेण भव्यश्रृङ्गारः कृतः। प्रातःकाले एकादश-ब्राह्मणैः रुद्राभिषेकः मन्त्रुच्चारणेन सह सम्पन्नः। अनन्तरं पञ्चविध-फलरसैः पञ्चामृतेन च अभिषेकः कृतः। चावल, मूङ्ग, तिल, गोधूम, यव, शालिधान्यं तथा उडिद् इत्येते सप्तधान्यानि समर्पितानि। ततः पुष्पनिर्मितमुकुटेन आरती कृतम्। मन्दिरस्य पुजारिभिः श्रीमहाकालेश्वरस्य श्रृङ्गारः कृतः, पुष्पमयः सेहरः बद्धः, नानाविधानि मिष्टान्नानि फलानि पञ्चमेव च नैवेद्यरूपेण अर्पितानि।
मध्याह्ने द्वादशवादने जलाभिषेकः कृत्वा दुग्ध-दधि-घृत-शर्करा-फलरसयुक्तेन पञ्चामृतेन पूजनं सम्पन्नम्। मन्त्रुच्चारणेन सह जलार्पणानन्तरं कपूरारती अभवत्। अनन्तरं भालप्रदेशे भाङ्ग-चन्दन-त्रिपुण्ड्रादिभिः दिव्यश्रृङ्गारः कृतः। श्रृङ्गारसमाप्तेः अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्मार्पणं कृतम्। भस्मार्पणानन्तरं रजत-शेषनागमुकुटः, रजत-मुण्डमाला, रुद्राक्षमाला, मोगरा-गुलाब-पुष्पमालाश्च अर्पिताः।
वर्षे केवलं एकवारं दिवा भवती या भस्मारती, सा मध्याह्ने द्वादशवादनात् आरभ्य द्विवादनपर्यन्तं अभवत्। ततः अनन्तरं भोगारती सम्पन्ना। सायं पूजनं शयनारती च कृत्वा मन्दिरस्य द्वाराणि पुनः निमीलितानि भविष्यन्ति।_____________
हिन्दुस्थान समाचार