नितीन नवीनस्य राष्ट्रियाध्यक्षता प्रत्येकं यूने भाजपा कार्यकर्त्रे सम्माननस्य क्षणम् : डॉ शशिशेखरः
सहरसा, 16 फ़रवरीमासः (हि.स.)। भारतीयजनतादले नितीननवीनस्य राष्ट्रियाध्यक्षरूपेण दायित्वग्रहणानन्तरं संगठनस्य अन्तः उत्साहपूर्णं वातावरणं दृश्यते। भाजपा-बिहार-प्रदेश-कार्यसमिति-सदस्यः डॉ. शशिशेखर-झा एतत् दलस्य नूतन-नेतृत्व-युगस्य आरम्भः इति निर्दिश
राष्ट्रीय अध्यक्ष


सहरसा, 16 फ़रवरीमासः (हि.स.)।

भारतीयजनतादले नितीननवीनस्य राष्ट्रियाध्यक्षरूपेण दायित्वग्रहणानन्तरं संगठनस्य अन्तः उत्साहपूर्णं वातावरणं दृश्यते।

भाजपा-बिहार-प्रदेश-कार्यसमिति-सदस्यः डॉ. शशिशेखर-झा एतत् दलस्य नूतन-नेतृत्व-युगस्य आरम्भः इति निर्दिश्य अवदत् यत् नितीननवीनस्य राष्ट्रीयाध्यक्षत्वं केवलं पद-परिवर्तनं न, अपितु दिनरात्रं परिश्रमं कुर्वतां सर्वेषां युवा-कार्यकर्तॄणां सम्मानस्य क्षणः अस्ति। एतेन कार्यकर्तॄणां मनोबलं वर्धिष्यते तथा संगठनं नूतन-शिखराणि प्रति नेतुम् समर्थं भविष्यति।

नवनिर्वाचितस्य राष्ट्रियाध्यक्षस्य पदभारग्रहणानन्तरं तस्य बिहार-आगमने डॉ. शशिशेखर-झा पटना-स्थिते तस्य निवासे गत्वा स्वागत-अभिनन्दनं कृत्वा शुभाशंसाः अर्पितवान्।

अस्मिन् अवसरे सः अवदत् यत् नवीनस्य सौम्य-व्यक्तित्वम्, मृदुभाषिता, स्पष्ट-चिन्तनशक्ति, संगठनात्मक-कौशलं च तम् दृढ-नेतारं करोति। तस्य नेतृत्वे भारतीयजनतापार्टी संगठनात्मक-सशक्तीकरणेन सह जनसेवा-क्षेत्रे अपि नूतन-उच्चताः स्प्रष्टुम् अर्हति।

डॉ. शशिशेखर-झा स्वानुभवं साझा कृत्वा अवदत् यत् मम कृते एतत् परमं सौभाग्यम् आसीत् यत् अहं बहुवर्षाणि तस्य नेतृत्वे सान्निध्ये च भारतीयजनतायुवामोर्चा इत्यत्र कार्यं कर्तुं अवसरं प्राप्तवान्। तस्य मार्गदर्शने कार्यं कुर्वन् संगठनस्य सूक्ष्मतत्त्वानि अवगन्तुं तथा कार्यकर्तृभिः सह निकटतया सम्बद्धुं अवसरः प्राप्तः। अद्य तस्य दलस्य सर्वोच्च-दायित्वे आसीनता अस्माकं सर्वेषां कृते गौरव-हर्षयोः विषयः अस्ति।

हिन्दुस्थान समाचार