Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 16 फरवरीमासः (हि.स)। रेल-प्रशासनेन यात्रिकाणां सुविधार्थं होली-विशेष-रेलयानानां संचालनस्य निर्णयः कृतः। अस्य अन्तर्गतं साप्ताहिक-रेलयानं ०९०३१ उधना-हसनपुररोड १५ तथा २२ फरवरी-दिने प्रचलिष्यति, तथा च रेलयानं ०९०३२ हसनपुररोड-उधना १६ तथा २३ फरवरी-दिने द्वौ-द्वौ फेरे करिष्यति।एवमेव रेलयानं ०९०३१ मार्च-मासे १, ८, १५, २२ तथा २९ तिथिषु प्रचलिष्यति, तथा हसनपुररोड-उधना-मार्गे २, ९, १६, २३ तथा ३० मार्च-दिने प्रचलिष्यति। एवं कुलं पञ्च-पञ्च फेरे भविष्यन्ति। एतत् रेलयानं उधना, चालटन, बरदोली, नंदुरबार, भुसावल, खण्डवा, इटारसी, जबलपुर, कटनी, सतना, मानिकपुर, प्रयागराज-छिवकी, पण्डित-दीनदयाल-उपाध्याय-नगर, बक्सर, आरा, दानापुर, पाटलिपुत्र, हाजीपुर-जङ्क्शन, मुजफ्फरपुर, समस्तीपुर इत्यादि स्थानानि अतिक्रम्य हसनपुररोड-स्थानकं प्राप्स्यति। अस्य रेलयानस्य संरचनायां सामान्य-श्रेण्याः २०, एसएलआरडी १, एसएलआर १ इत्येवं कुलं २२ डिब्बाः भविष्यन्ति।वरिष्ठ-जनसम्पर्क-अधिकारी अमित-मालवीयस्य वक्तव्यानुसारम्, एवं प्रकारेण रेलयान-संख्या ०३००९-०३०१० डानकुनी-आनन्दविहार-टर्मिनल-डानकुनी-विशेष-रेलयानम् अपि संचालितं भविष्यति। रेलयानं ०३००९ डानकुनी-स्थानकात् प्रत्येक-शनिवासरे २८ फरवरी तथा ०७ मार्च-दिने आवृत्तिद्वयं करिष्यति। रेलयानं ०३०१० आनन्दविहार-टर्मिनल-स्थानकात् प्रत्येक-रविवासरे ०१ तथा ०८ मार्च-दिने आवृत्तिद्वयं करिष्यति। अस्य रेलयानस्य संरचनायां एसी-तृतीय-श्रेण्याः ४, शयनयान-श्रेण्याः १०, सामान्य-श्रेण्याः ६, एसएलआरडी २ इत्येवं कुलं २२ कोष्ठाःभविष्यन्ति।
---------------
हिन्दुस्थान समाचार