पांशकुड़ायां पूजासमितिः शुभारब्धा नि:शुल्कम् ऑसजनसेवा
मेदिनीपुरम्, 16 फरवरीमासः (हि.स.)। शिवरात्रि-पूजन-अवसरे पश्चिम बंगाल राज्यस्य पूर्व मेदिनीपुर जिला अन्तर्गत पांशकुड़ा क्षेत्रस्थितेन “दक्षिण-बड़हट-न्यू-तरुण-संघ” इत्यनेन चतुर्णां ग्रामाणां रोगिणां कृते निःशुल्क-ऑक्सीजन-सिलिण्डर-सेवा आरब्धा। अस्य
ग्रामीण मरीजों के लिए पूजा के दिन ऑक्सीज सिलेंडर देते हुए


मेदिनीपुरम्, 16 फरवरीमासः (हि.स.)।

शिवरात्रि-पूजन-अवसरे पश्चिम बंगाल राज्यस्य पूर्व मेदिनीपुर जिला अन्तर्गत पांशकुड़ा क्षेत्रस्थितेन “दक्षिण-बड़हट-न्यू-तरुण-संघ” इत्यनेन चतुर्णां ग्रामाणां रोगिणां कृते निःशुल्क-ऑक्सीजन-सिलिण्डर-सेवा आरब्धा। अस्य संस्थायाः एषः एकचत्वारिंशत्तमः (41) वर्षः अस्ति, अस्य अवसरस्य निमित्तं पञ्च-दिवसीय-कार्यक्रमाः आयोज्यन्ते।

रविवासरे सायंकाले आयोजितस्य उद्घाटन-समारोहस्य अध्यक्षतां बाकुलदा-उच्च-विद्यालयस्य पूर्व-प्रधान-शिक्षकः कानाइलाल-मण्डलः अकरोत्। कार्यक्रमे घाटाल-कॉलेजस्य प्राध्यापकः विकास-मण्डलः, शिक्षकः उदय-कालसारः, गोपीनाथ-सामन्तः, न्यू-तरुण-संघस्य सचिवः सुजय-हुतायतः, अध्यक्षः ललित-धाड़ा इत्यादयः अन्ये गणमान्याः उपस्थिताः आसन्।

समारोहे क्षेत्रस्य त्रयः ग्रामीण-चिकित्सकाः सम्मानिताः। तथा च दक्षिण-बड़हट, योगीबाड़ी, गोपीमोहनपुर, गोसाईबेड़-ग्रामेषु रोगिणां चिकित्सासुविधार्थं ऑक्सीजन-कोषाः अन्यानि आवश्यक-चिकित्सा-सामग्री च ग्रामीण-चिकित्सकेभ्यः समर्पितानि।

संघस्य पदाधिकाऱिभिः उक्तं यत् वर्षपर्यन्तं गम्भीर-रोगिणां कृते ऑक्सीजन-सिलिण्डराः प्रदीयन्ते, तथा सेवायाः सम्बन्धिनां ग्रामीण-चिकित्सकानां पारिश्रमिकम् अपि संस्थया वह्यते। उपदेष्टा-शिक्षकः कार्तिक-सामन्तः अवदत् यत् उद्देश्यम् एतस्मिन् क्षेत्रे कश्चन अपि जनः उपचार-अभावेन जीवनं न हापयेत्। अस्य अतिरिक्तं कतिचन नेब्युलाइजर-यन्त्राणि अपि दानरूपेण प्रदत्तानि। कार्यक्रमे नृत्याङ्गना रञ्जुश्री-मान्ना अपि विशेष-सम्मानेन सम्मानिता।

---------------

हिन्दुस्थान समाचार