Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी इण्डिया-एआई–इम्पैक्ट–सम्मेलनं यूनां शक्तेः तथा प्रौद्योगिक्याः प्रगते: प्रतीकम् इति उद्घोषितवान्। स: अवदत् यत् विश्वस्य नेतार: विशेषज्ञा: नवोन्मेषकाश्च भारतं आगच्छन्ति। एषा राष्ट्राय गौरवपूर्णा घटना अस्ति।
प्रधानमन्त्री एक्स–माध्यमे अवदत् यत् अस्मिन् सम्मेलने भारतस्य यूनां क्षमता प्रदर्श्यते। एवं प्रमाणीकृतं यत् भारतदेश: विज्ञान–तथा प्रौद्योगिक्याः क्षेत्रे शीघ्रं अग्रसरति। भारतदेश: वैश्विक–विकासे महत्वपूर्णं योगदानं दातुम् अर्हति।
प्रधानमन्त्री अवदत् यत् भारतदेश: प्रौद्योगिक्याः नवोन्मेषस्य च क्षेत्रे निरन्तरं नवीनं प्रतिमानं निर्माति। स: यूनां भूमिका राष्ट्रस्य भविष्याय महत्वपूर्णा इति उवाच। अस्मिन् अवसरे स: संस्कृत–सुभाषितं अपि लिखितवान् –
दाने तपसि शौचं च विज्ञानं विनये नये। विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा।।
अस्य सुभाषितस्य अर्थः – पृथ्वी बहुवर्णरत्नैः परिपूर्णा अस्ति। अतः ज्ञानं, तपः, शुद्धता, विनयः, नीतिश्च इत्यादिषु गुणेषु विस्मयः न कर्तव्यः।
हिन्दुस्थान समाचार / अंशु गुप्ता