द्रौपदी मुर्मू–इत्यनया सह प्रशिक्षु–अधिकारीणां साक्षात्कार:
नवदिल्ली, १६ फरवरीमासः (हि.स.)।भारतीय–लेखा–परीक्षा–सेवायाः, रक्षा–वैमानिक–गुणवत्ता–आश्वासन–सेवायाः तथा भारतीय–व्यापार–सेवायाः प्रशिक्षु–अधिकारिणः सोमवासरे अत्र द्रौपदी मुर्मू–महाभागया राष्ट्रपतिभवने शिष्टाचार–साक्षात्कारं कृतवन्तः। अस्मिन् अवसरे र
राष्ट्रपति द्रौपदी मुर्मु सोमवार को प्रशिक्षु अधिकारियों को राष्ट्रपति भवन में संबोधित करते हुए


नवदिल्ली, १६ फरवरीमासः (हि.स.)।भारतीय–लेखा–परीक्षा–सेवायाः, रक्षा–वैमानिक–गुणवत्ता–आश्वासन–सेवायाः तथा भारतीय–व्यापार–सेवायाः प्रशिक्षु–अधिकारिणः सोमवासरे अत्र द्रौपदी मुर्मू–महाभागया राष्ट्रपतिभवने शिष्टाचार–साक्षात्कारं कृतवन्तः।

अस्मिन् अवसरे राष्ट्रपतिः अवदत् यत् प्रतिष्ठितासु सेवासु तेषां चयनं राष्ट्रसेवायाः महत्त्वपूर्णः अवसरः अस्ति। येषां स्थानानां प्राप्तिं बहवः युवान: स्वप्नीकुर्वन्ति, तेषु कतिचिद्भ्य: एषः अवसरः लभ्यते; अतः ते अनेकानां यूनां कृते प्रेरणास्रोतः आदर्शश्च भवितुं शक्नुवन्ति। उदाहरणं प्रदर्श्य नेतृत्वं कर्तुं तेषां सम्पूर्ण–सेवा–यात्रायां दायित्वं भविष्यतीति सा अवदत्।

राष्ट्रपतिः उक्तवती यत् यदा अधिकारिणः प्रतिबद्धतया भारतस्य विकासाय प्रत्येकं नागरिकस्य कल्याणाय च कार्यं कुर्वन्ति, तदा राष्ट्रं अधिकं सशक्तं, सक्षमं च भूत्वा वैश्विक–मञ्चे सम्मानं प्राप्नोति। तेषां उत्साहः समर्पणं च ‘नूतन–भारत’–निर्माणे परिवर्तनकारी–शक्तिरूपेण कार्यं कर्तुं शक्नोति।

भारतीय–लेखा–लेखा–परीक्षा–सेवायाः अधिकारिणः उद्दिश्य राष्ट्रपतिः अवदत् यत् ते जन–विश्वासस्य संरक्षकाः वित्तीय–अनुशासनस्य प्रहरीणश्च सन्ति। कार्यपालिकाया: लेखा–परीक्षा–संस्थाभिः सह समन्वयेन शासन–व्यवस्थायां उत्तरदायित्वस्य प्रभावशीलता वर्धते। प्रभावी सहभागिता सार्वजनिक–व्ययस्य दक्षतां वर्धयति वाञ्छित–फल–प्राप्तौ च सहायिका भवति। संविधानस्य तथा सेवाया: परम्पराणां मूल्यानां च संरक्षणं सदैव कर्तव्यमिति तान् सा अनुरोधयामास।भारतीय–व्यापार–सेवायाः अधिकारिणः प्रति राष्ट्रपतिः अवदत् यत् निवेश–आकर्षणे, रोजगार–सृजने, भारतीय–उद्योगानां नवाचाराविस्ताराय वैश्विक–प्रतिस्पर्धायै च अनुकूल–परिवेश–निर्माणे तेषां भूमिका महत्त्वपूर्णा भविष्यति। नीतिषु निर्णयेषु च भारतस्य राष्ट्रीय–हितमेव मार्गदर्शक–सिद्धान्तः भवितव्य: इति सा अवदत्। प्रत्येकं व्यापार–बाधाया: समाधानं, प्रत्येकं सनृदे समर्थनं च भारतं दृढं सम्मानितं वैश्विक–व्यापार–सहभागं कर्तुं सहायं भविष्यति।

रक्षा–वैमानिक–गुणवत्ता–आश्वासनसेवायाः अधिकारिणः सम्बोध्य राष्ट्रपतिः अवदत् यत् सशस्त्र–बलानां कृते अत्याधुनिकानां विश्वस्तरीय–शस्त्राणां गोला–विस्फोटकस्य च उच्चतम–गुणवत्ता–निश्चयः तेषां प्रमुखं दायित्वम्।विज्ञान–प्रौद्योगिकी–अभियांत्रिकी–क्षेत्राणां राष्ट्रिय–रक्षाया: च महत्त्वपूर्णे सङ्गमे तेषां भूमिका स्थितेति सा अवदत्। सशस्त्र–बलान् बहु–आयामी–समेकित–अभियानानां कृते सक्षमाः, प्रौद्योगिक्या उन्नताः, युद्धाय तत्पराः च कर्तुं नवोन्मेष–दृष्टिकोणं स्वीकर्तुम् अधिकारिणः सा अवदत्।

हिन्दुस्थान समाचार / अंशु गुप्ता