बस्तर–जनपदे वर्षस्य २०२६ कृते त्रयाणां स्थानीय–अवकाशानां घोषणा
जगदलपुरनगरम्, १६ फरवरीमासः (हि.स.)। बस्तर जनपदस्य उपायुक्त: आकाशः छिकारा छत्तीसगढ–शासनस्य सामान्य–प्रशासन–विभागेन प्रदत्तानां शक्तीनां प्रयोगं कृत्वा वर्षस्य २०२६ कृते त्रयाणां स्थानीय–अवकाशानां आधिकारिकां घोषणां कृतवान्। सोमवासरे निर्गतेन आदेशेन ब
बस्तर कलेक्टर आकाश छिकारा


जगदलपुरनगरम्, १६ फरवरीमासः (हि.स.)। बस्तर जनपदस्य उपायुक्त: आकाशः छिकारा छत्तीसगढ–शासनस्य सामान्य–प्रशासन–विभागेन प्रदत्तानां शक्तीनां प्रयोगं कृत्वा वर्षस्य २०२६ कृते त्रयाणां स्थानीय–अवकाशानां आधिकारिकां घोषणां कृतवान्। सोमवासरे निर्गतेन आदेशेन बस्तरस्य समृद्धाः सांस्कृतिक–परम्पराः तथा प्रमुख–पर्वाणि विचार्य एते अवकाशाः निश्चिताः, येन स्थानीय–स्तरे पर्वोत्साहः अधिकं वर्धिष्यते।

निर्गते सर्वकारी–आदेशे निर्दिशानुसारं, वर्ष २०२६ मध्ये प्रथमः स्थानीय–अवकाशः गुरुवासरे १६ जुलाई–तिथौ रथयात्रा–पर्व (गोंचा–पर्व) भविष्यति। तदनन्तरं विश्व–विख्यातस्य बस्तर–दशहरायाः प्रमुख–पर्वाङ्गे ‘बाह्य–रैनी’ इत्यस्य उपलक्ष्ये गुरुवासरे २२ अक्टूबर–तिथौ सम्पूर्णे जनपदे अवकाशः घोषितः। तथा दीपावल्याः उत्सवं निरन्तरं कर्तुं सोमवासरे ९ नवम्बर–तिथौ गोवर्धन–पूजायाम् (दीपावल्याः द्वितीयः दिवसः) तृतीयः स्थानीय–अवकाशः दत्तः।

एष: आदेशः सम्पूर्ण–बस्तर–जनपदाय प्रवर्तिष्यते, येन एतासु विशेष–तिथिषु स्थानीय–जनजीवनं पर्व–अनुष्ठानेषु सुविधां लप्स्यते। तथापि प्रशासनम् अपि स्पष्टं कृतवान् यत् एतेषु अवकाश–दिवसेषु अपि जनपदस्य सर्वे धनागाराः तथा उप–धनागाराः सामान्य–दिवसवत् उद्घाटिताः एव भविष्यन्ति, येन वित्तीय–धनागार–सम्बद्धानि कार्याणि न बाध्यन्ते। उपायुक्तस्य अनेन निर्णयेन विशेषतः ते जनाः महतीं शिथिलतां प्राप्तवन्तः ये बस्तरस्य पारम्परिक–संस्कार–पर्वसु सक्रियतया सहभागं कुर्वन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता