Enter your Email Address to subscribe to our newsletters

वेल्लोरम्, 16 फ़रवरीमासः (हि.स.)। बर्ड् फ्लू (एच5एन1 एवियन इन्फ्लुएंजा) इत्यस्य संभावितप्रसारनिवारणार्थं तमिलनाडु–आंध्र प्रदेश सीमायां सावधानतामूलकाः उपायाः तीव्रतया क्रियन्ते। सीमाचेकफलकेषु आंध्रप्रदेशतः आगच्छतां वाहनानां उपरि कीटाणुनाशकद्रव्याणां छिड़कावः क्रियते तथा सघना परीक्षा अपि विधीयते।
गतस्मिन् मासि चेन्नई नगरस्य अडयारप्रदेशे सहसा अनेकाः काकाः मृताः प्राप्ताः। तदनन्तरं नगरनिगमाधिकारिभिः मृतपक्षिणां नमूनानि परीक्षणार्थं भोपालस्थितं राष्ट्रियपशुरोगअनुसन्धानसंस्थानं प्रेषितानि। परीक्षणे पुष्टि जाता यत् काकेषु एच5एन1 एवियन इन्फ्लुएंजा विषाणोः संक्रमणम् आसीत्।
स्थितेः गाम्भीर्यं दृष्ट्वा तमिलनाडु सरकारेण कठोराः उपायाः स्वीकृताः। समीपवर्तिनि आंध्र प्रदेश राज्यस्य चित्तूरजिले द्वयोः पोल्ट्रीफार्मयोः बर्ड् फ्लू इत्यस्य पुष्टि जातायाम् अनन्तरं निरीक्षणव्यवस्था अधिकं दृढीक्रियते। अस्मिन् जिले सप्तसु क्षेत्रेषु प्रत्येकस्मिन् त्रयः दलाः नियोजिताः, एवं कुलम् एकविंशतिः विशेषनिरीक्षणदलाः गठिताः। एते पोल्ट्रीफार्मेषु, बाजारस्थलेषु तथा पक्षिसंकुलप्रदेशेषु निरीक्षणं कुर्वन्ति।
तमिलनाडु–आंध्रप्रदेशसीमायाः कृष्टियनपेट, साइनागुंडा तथा पत्रापल्ली चेकपोस्टेषु पशुपालनविभागस्य वैद्यैः आंध्रप्रदेशतः वेल्लोरजिलं प्रविशन्तां सर्वेषां वाहनानां परीक्षा क्रियते। कुक्कुटान्, कुक्कुटाहारं तथा अण्डानि वहन्तां वाहनानां उपरि कीटाणुनाशकछिड़कावः अनिवार्यः कृतः। अवैधदस्तावेजयुक्तानि अथवा संदिग्धसामग्रीयुक्तानि वाहनानि प्रत्यावर्त्यन्ते।
जिलाप्रशासनेन स्पष्टं कृतं यत् वेल्लोरजिले अद्यपर्यन्तं बर्ड् फ्लू इत्यस्य कश्चन प्रकरणः न अभिलेखितः। अपि च जनसामान्यं प्रति अपीलः कृतः यत् ते मृतपक्षिणः न स्पृशेयुः, अपितु समीपस्थं पशुचिकित्साधिकारीं शीघ्रं सूचयेयुः। स्वास्थ्यविभागेन अपि जनानां प्रति सावधानतां पालनस्य उपदेशः दत्तः, यतः विरलेषु प्रसङ्गेषु एषः संक्रमणः मनुष्येषु अपि प्रसारितुं शक्नोति।---------------
हिन्दुस्थान समाचार