Enter your Email Address to subscribe to our newsletters

पौडी-गढवालनगरम्, १६ फरवरीमासः (हि.स.)। पौड़ी–गढवाल–जनपदे विकासखण्डस्य कल्जीखाल–अन्तर्गतस्य भेटी–ग्रामे विकसित–भारत–रोजगार–आजीविका–गारण्टी तथा ग्रामीण–अभियान–सम्बद्धस्य जन–जागरण–अभियानस्य अन्तर्गतं कार्यक्रमः आयोजितः।
कार्यक्रमे विधायकः राजकुमार: पोरी ग्रामीणजनान् सम्बोधयन् अस्य अधिनियमस्य उद्देश्यं, प्रमुख–प्रावधानानि, तथा अस्य माध्यमेन श्रमिकेभ्यः, ग्रामीण–समाजाय, देशस्य विकास–यात्रायै च लभ्यमानानां व्यापक–लाभानां उपयोगितां विस्तारतः अवबोधयामास। सः अवदत् यत् केन्द्र–सर्वकारस्य अस्या योजनाया: प्रभावेन ग्रामीण–क्षेत्रेषु विकास–कार्याणां वेगः वर्धिष्यते।
अस्मिन् कार्यक्रमे ग्रामीण–रोजगारः, आजीविका–सशक्तीकरणम्, तथा आत्मनिर्भर–भारत–दिशि क्रियमाणेषु प्रयत्नेषु विचार–विनिमयः अपि अभवत्। सः ग्रामीण–विकास–योजनाः जनं जनं प्रति प्रापणीया: तथा सहभागितां वर्धयितुं सन्देशं दत्तवान्। अस्मिन् अवसरे मण्डल–महामन्त्री राजेन्द्र–प्रसादः, बृजमोहन–भट्टः, विजय–भट्टः, अनूप–कुमारः इत्यादयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता