उपराष्ट्रपतिः एआई संगोष्ठ्याः शुभारंभे हर्षं प्रकटयन् सफलता कामितवान्
नव दिल्ली, 16 फरवरीमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णन् सोमवासरे भारत मंडपम एआई-समिटस्य उद्घाटने हर्षं व्यक्तवान् तथा एआई-प्रभाव-शिखर-सम्मेलनस्य भव्यसफलतां कामितवान्। तेन उक्तं यत् “भारत-एआई-प्रभाव-शिखर-सम्मेलनम् अद्य दिल्लीस्थिते भारतम
एआई समिट (फाइल फोटो)।


नव दिल्ली, 16 फरवरीमासः (हि.स.)।

उपराष्ट्रपतिः सीपी राधाकृष्णन् सोमवासरे भारत मंडपम एआई-समिटस्य उद्घाटने हर्षं व्यक्तवान् तथा एआई-प्रभाव-शिखर-सम्मेलनस्य भव्यसफलतां कामितवान्।

तेन उक्तं यत् “भारत-एआई-प्रभाव-शिखर-सम्मेलनम् अद्य दिल्लीस्थिते भारतमण्डपमे आरभ्यते। भारतः जन-प्रथमं लोकतान्त्रिकम् एआई-भविष्यं निर्मातुं प्रयत्नेषु अग्रे तिष्ठति। एतत् सम्मेलनस्य ‘सर्वजनहिताय सर्वजनसुखाय’ इति विषयवाक्ये अपि परिलक्षितं भवति।”

उपराष्ट्रपतिः अवदत् यत् एआई-विकासस्य केन्द्रे सार्वजनिक-कल्याणम्, सुलभता, वैश्विक-सहकारिता च स्थापयित्वा भारतः वैश्विकोत्तरस्य तकनीकी-शक्तीः वैश्विकदक्षिणस्य व्यापक-क्षमतया सह संयोजयितुम् इच्छति, येन विश्वे सर्वत्र समावेशी-साझा-प्रगति साध्येत।

तेन अपि स्मारितं यत् प्रधानमन्त्री नरेन्द्र मोदी गतवर्षे पेरिस-नगरे एआई-एक्शन-समिटे उक्तवान्— “केचन जनाः चिन्तां कुर्वन्ति यत् यन्त्राणि बुद्धौ मानवात् श्रेष्ठानि भविष्यन्ति। किन्तु अस्माकं सामूहिक-भविष्यस्य साझा-भाग्यस्य च कुञ्जिका मानवात् अन्यस्य कस्यापि हस्ते नास्ति।”

अन्ते उपराष्ट्रपतिः उक्तवान् यत् एआई मानव-केन्द्रितं दायित्वपूर्वकं च निर्देशितं भवेत्।

-----------------

हिन्दुस्थान समाचार