बिहार सर्वकारस्य सप्त निश्चयाः-3 इत्याधृत्य जिल्लाधिकारी अधिकारिभिः सह उपवेशनम्
बिहारशरीफम्, 16 फ़रवरीमासः (हि.स.)।जिलाधिकारिणः अध्यक्षतायां सोमवासरे जिला-अनुमण्डल-प्रखण्ड-स्तरीय-तकनीकी-अतकनीकी-पदाधिकारीभिः सह साप्ताहिक-समन्वय-समीक्षा-सभा आयोजिताऽभवत्। अस्यां समीक्षासभायां मुख्यतया बिहार-सर्वकारस्य ‘सप्त-निश्चय-३’ इत्यस्य सप्
कार्यों की समीक्षा करते डीएम


बिहारशरीफम्, 16 फ़रवरीमासः (हि.स.)।जिलाधिकारिणः अध्यक्षतायां सोमवासरे जिला-अनुमण्डल-प्रखण्ड-स्तरीय-तकनीकी-अतकनीकी-पदाधिकारीभिः सह साप्ताहिक-समन्वय-समीक्षा-सभा आयोजिताऽभवत्।

अस्यां समीक्षासभायां मुख्यतया बिहार-सर्वकारस्य ‘सप्त-निश्चय-३’ इत्यस्य सप्तम-निश्चयः ‘सबका सम्मान-जीवन आसान’ इत्यस्य कार्यान्वयन-विषये, सालेपुर-बेलउआ-सडक-निर्माण-कार्यस्य प्रगति-विषये, मलमास-मेला-२०२६-समये पूर्व-तैयारी-विषये च चर्चा कृता। जिलाधिकारिणा सम्बन्धित-पदाधिकारीभ्यः आवश्यक-दिशा-निर्देशाः प्रदत्ताः।

अस्मिन् अवसरे जिलाधिकारिणा उक्तं यत् प्रशासनिक-व्यवस्था सुदृढा, संवेदनशीला, उत्तरदायिनी च भवेत् इति उद्देश्येन बिहार-सरकारस्य ‘सप्त-निश्चय-३’ अन्तर्गतः सप्तम-निश्चयः ‘सबका सम्मान-जीवन आसान’ प्रवर्तितः अस्ति। अस्य मुख्य-लक्ष्यम् सर्वेषां नागरिकानां दैनिक-जीवने आगच्छन्तीनां कठिनतानां न्यूनीकरणं कृत्वा तेषां जीवनं सुलभं करणम् अस्ति।

तेन अपि उक्तं यत् कदाचित् सामान्य-जनाः स्वसमस्याभिः सह शासकीय-कार्यालयान् आगच्छन्ति, किन्तु अधिकारी उपस्थिताः न भवन्ति, येन जनानां असुविधा भवति। अतः अद्य प्रभृति सामान्य-जनानां शासकीय-कार्यालय-संबद्ध-कार्येषु कस्यापि प्रकारस्य कठिनतां न अनुभवेयुः इति दृष्ट्या निम्नलिखिताः दिङ्-निर्देशाः प्रदत्ताः।

हिन्दुस्थान समाचार