Enter your Email Address to subscribe to our newsletters

जयपुरम्, 17 फ़रवरीमासः (हि.स.)।राजस्थान लोक सेवा आयोग द्वारा सहायक-अभियंतृ-संयुक्त-प्रतियोगी (मुख्य) परीक्षा २०२४ इत्यस्य तिथयः संशोधिताः सन्ति। संशोधित-कार्यक्रमानुसारम् अधुना एषा परीक्षा २२ तथा २३ मार्च २०२६ तयोः दिवसेषु आयोजिता भविष्यति। पूर्वं एषा परीक्षा १५ तथा १६ मार्च २०२६ तयोः दिवसेषु आयोजयितुं प्रस्ताविता आसीत्।
आयोगस्य सचिवः अवदत् यत् २२ मार्च दिने प्रातः ९ वादनात् १२ वादनपर्यन्तं हिन्दी-विषयस्य प्रश्नपत्रम्, अपराह्णे २:३० वादनात् ५:३० वादनपर्यन्तं ‘सोशल आस्पेक्ट्स ऑफ इंजीनियरिंग’ इत्यस्य प्रश्नपत्रं भविष्यति।
२३ मार्च दिने प्रातः ९ वादनात् १२ वादनपर्यन्तं सिविल, इलेक्ट्रिकल, मैकेनिकल तथा एग्रीकल्चर-इंजीनियरिंग इत्येषां विषयाणां प्रथम-प्रश्नपत्राणां परीक्षा आयोजिता भविष्यति। अपराह्णे २:३० वादनात् ५:३० वादनपर्यन्तं एतेषामेव विषयाणां द्वितीय-प्रश्नपत्राणां परीक्षा अपि संपन्ना भविष्यति।
---------------
हिन्दुस्थान समाचार