Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ फरवरीमासः (हि.स.)।अडाणी–समूहेन नवीकरणीय–ऊर्जया सञ्चालितानां अत्याधुनिकानां एआइ–समर्थित–दत्त–केन्द्राणां विकासाय वर्षं २०३५ पर्यन्तं १०० अर्बुद–अमेरिकी–डॉलर (प्रायः ९ लक्ष–कोटि रूप्यकाणि) परिमितं निवेशं कर्तुं घोषणा कृता। एषा प्रतिबद्धता विश्वे विशालतमासु एकीकृतासु ‘ऊर्जा–संगणन’ (Energy–Compute) प्रयत्नेषु एक: इति कथ्यते।
समूहस्य प्रमुखा निर्माणी अडाणी-एंटरप्राइजेज-विज्ञप्तौ अवदत् यत् अस्य प्रयत्नय परिणामस्वरूपं ‘सर्वर’–निर्माणे, ‘क्लाउड’–मञ्चेषु तथा सहायक–उद्योगेषु अतिरिक्तं १५० अरब–अमेरिकी–डॉलर निवेशः अपेक्षितः। अनेन भारतदेशे प्रायः २५० अर्बुद–अमेरिकी–डॉलर-परिमाणं एआइ–अवसंरचना–परिवेशः निर्मीयेत इति अनुमानम्।
समूहाध्यक्षः गौतम: अडाणी अवदत् यत् विश्वं अद्य एकस्यां बुद्धिमत्ता–क्रान्तौ प्रविशति, या पूर्वासु औद्योगिक–क्रान्तिषु अपि अतिगभीरतमा। ऊर्जा–संगणनयोः मध्ये समन्वयं स्थापयितुं यत् राष्ट्रं निपुणम्, तत् एव अग्रिमं दशकं रूपयिष्यति। भारतदेश: नेतृत्वं कर्तुं अद्वितीयया स्थित्या उपविष्टः अस्ति—इति तेन उक्तम्।
सः अवदत् यत् अडाणी–समूहेन विवरण–केन्द्रेषु हरित–ऊर्जायां च दृढां आधारशिलां आश्रित्य भारतस्य प्रौद्योगिकी–स्वायत्ततां केन्द्रे कृत्वा पञ्च–स्तरीया एआइ–नमूना विकसिता। एआइ–युगे भारतदेश: केवलं उपभोक्ता न भविष्यति; अपि तु बुद्धिमत्तायाः निर्माता, विकासकर्ता तथा निर्यातकः भविष्यति—एतस्मिन् भविष्ये सहभागित्वं कर्तुं वयं गौरवं अनुभवामः—इति गौतम–अडाणिना उक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता