असम–प्रदेशस्य राजनीतिक–दलैः निर्वाचन–आयोगं प्रति विधानसभाया: निर्वाचनं द्विचरणेषु आयोजयितुं विचार: प्रदत्तः
गुवाहाटीनगरम्, १७ फरवरीमासः (हि.स.)। असम–प्रदेशस्य विविधैः राजनीतिक–दलैः निर्वाचन–आयोगं प्रति विधानसभाया: निर्वाचनं एकस्मिन् चरणे अथवा अधिकतमं द्विचरणेषु आयोजयितुं विचार: प्रदत्तः। राज्ये विधानसभानिर्वाचनस्य आयोजनं विषयीकृत्य निर्वाचन–आयोगस्य दलं त
असमः राजनीतिक पार्टियों एवं चुनाव आयोग की टीम के साथ गुवाहाटी में आयोजित बैठक का दृश्य


गुवाहाटीनगरम्, १७ फरवरीमासः (हि.स.)। असम–प्रदेशस्य विविधैः राजनीतिक–दलैः निर्वाचन–आयोगं प्रति विधानसभाया: निर्वाचनं एकस्मिन् चरणे अथवा अधिकतमं द्विचरणेषु आयोजयितुं विचार: प्रदत्तः। राज्ये विधानसभानिर्वाचनस्य आयोजनं विषयीकृत्य निर्वाचन–आयोगस्य दलं त्रिदिवसीय–प्रवासाय गुवाहाटी–नगरं प्राप्तम् अस्ति।

यत्र राजनैतिक–दलानि राज्ये भाविनः २०२६–विधानसभा–निर्वाचनस्य कृते स्व–रणनीतिनां अन्तिमरूपं दातुं प्रवृत्ताः सन्ति, तत्रैव निर्वाचन–आयोगः अपि निर्वाचनं सुचारुरूपेण सम्पन्नं कर्तुं स्व–सज्जानां अन्तिमचरणे प्रवृत्तः अस्ति।

मङ्गलवासरे निर्वाचन–आयोगेन सह सम्पन्नायां सभायां बहवः राजनीतिक–दलानि निर्वाचनं एकस्मिन् चरणे अथवा अधिकतमं द्विचरणेषु आयोजयितुं याचनां कृतवन्तः। तैः बिहु–उत्सवस्य विचारं कृत्वा निर्वाचन–तिथिनां निर्धारणाय अपि आग्रहः कृतः। असमे निर्वाचन–नियमानां विशेष–समीक्षायाः (स्पेशल्–रिविजन) आयोजनं राजनैतिक–दलैः प्रशंसितम्। राज्ये शान्तिपूर्ण–निर्वाचनस्य सुनिश्चित्यै विविधाः विचारा: (सुझावाः) अपि तैः प्रदत्ताः।

अद्य गुवाहाटी–नगरे स्थिते होटल-रेडिशन-ब्लू–इत्यत्र मुख्य–निर्वाचन–आयुक्तः ज्ञानेशकुमार:, निर्वाचन–आयुक्तौ सुखबीरसिंह: संधू तथा विवेक: जोशी, असम–राज्यस्य मुख्य–निर्वाचन–अधिकारी (सीईओ) तथा आयोगस्य वरिष्ठ–अधिकारीभिः सह राज्यस्य मान्यताप्राप्तैः राष्ट्रीय–राज्यस्तरीयैः राजनीतिक–दलैः सह सभा: आयोजिताः। निर्वाचन–आयोगः राजनीतिक–दलैः सह संवादं कृत्वा तेषां परामर्शान् तथा विचारान् श्रुतवान्।

निर्वाचन–आयोगेन सह सम्पन्नायां सभायां सहभागिन्यः राष्ट्रीय–पक्षेषु आम-आदमी-पक्ष:, भारतीयजनता-पक्ष:, भारतस्य कम्युनिस्टपक्ष: (मार्क्सवादी), भारतीयराष्ट्रीयकांग्रेसपक्ष: च आसन्। राज्यस्तरीय–दलानां मध्ये ऑल इंडिया यूनाइटेड डेमोक्रेटिक फ्रंट, असमगणपरिषद्, बोडोलैंड-पीपुल्स-फ्रंट, यूनाइटेड-पीपुल्स-पक्ष: लिबरल इत्यादयः प्रमुखाः सन्ति।

सभायां बहवः राजनैतिक–दलानि निर्वाचनं एकस्मिन् चरणे अथवा अधिकतमं द्विचरणेषु आयोजयितुं पुनः याचनां कृतवन्तः। बिहु–उत्सवस्य ध्यानं कृत्वा निर्वाचन–तिथिनां निर्धारणाय अपि तैः आग्रहः कृतः। असमे निर्वाचन–नियमानां विशेष–समीक्षायाः आयोजनं प्रशंसित्वा राज्ये शान्तिपूर्ण–निर्वाचनस्य सुनिश्चित्यै विविधाः सूचनाः अपि तैः प्रदत्ताः।

हिन्दुस्थान समाचार / अंशु गुप्ता