मार्गयात्रामाध्यमेन सुरक्षाविषये जागरूकता विहिता
कठुआ, 17 फरवरीमासः (हि.स.)। जीडीसी मढ़हीन महाविद्यालयस्य एनएसएस-एकया दत्तकगृहीते ग्रामे मढ़हीन नाम्नः आयोजितस्य सप्तदिवसीय शीतकालीन शिविरस्य पञ्चमे दिने पथप्रदर्शनकार्यक्रमः आयोजितः। एनएसएस-एककस्य सड़क सुरक्षा तथा तस्य उपायाः इति विषयम् आधृत्य जा
Awareness about road safety was created through road show.


कठुआ, 17 फरवरीमासः (हि.स.)।

जीडीसी मढ़हीन महाविद्यालयस्य एनएसएस-एकया दत्तकगृहीते ग्रामे मढ़हीन नाम्नः आयोजितस्य सप्तदिवसीय शीतकालीन शिविरस्य पञ्चमे दिने पथप्रदर्शनकार्यक्रमः आयोजितः। एनएसएस-एककस्य सड़क सुरक्षा तथा तस्य उपायाः इति विषयम् आधृत्य जागरूकता पथयात्रा सम्पन्ना।

सड़कदुर्घटनासु युवानां दैनन्दिनं मृत्युघटनाः मनसि निधाय एनएसएस स्वयंसेवकाः ग्रामवासिनः जागरूकितवन्तः। अस्मिन् विशाल जागरूकता कार्यक्रमे स्वयंसेवकाः सक्रियतया सहभागिताम् अकरोत्। यात्रा महाविद्यालयस्य प्राचार्या प्रो डॉ अनुपमा गुप्ता हरितध्वजेन प्रारब्धवती।

सर्वे प्रतिभागिनः यातायात नियम विनियम विषयक नारे उच्चारितवन्तः विविध नारालेखित ध्वजपट्टिकाः धारितवन्तः च। ते जनान् प्रति द्विचक्रयानं चालयन्तः शिरस्त्राणस्य उपयोगः कर्तव्यः चतुश्चक्रयानं चालयन्तः सीटबेल्ट उपयोगः कर्तव्यः सदैव जीब्रा क्रॉसिंग उपयोगः करणीयः यातायात दीपे स्थित्वा एव गमनं करणीयम् इति सन्देशं प्रसारितवन्तः तथा एतत् पालनाय संकल्पं कृतवन्तः।

एनएसएस स्वयंसेवकाः द्विचक्रयान चालकेभ्यः चतुश्चक्रयान चालकेभ्यः च मार्गे स्थित्वा तान् निरोद्धुम् अपि प्रयत्नं कृतवन्तः तथा हेलमेट सीटबेल्ट उपयोगस्य महत्त्वं बोधितवन्तः। कार्यक्रमस्य संचालनं एनएसएस कार्यक्रम अधिकारी डॉ अरुण देव सिंह कृतवान्।

अस्मिन् अवसरे अन्ये उपस्थिताः अध्यापकाः आसन् प्रोफेसर अनूप शर्मा डॉ मुनीशा देवी प्रो चरण सिंहो, डॉ रीमी डॉ प्रीति खजूरिया, डॉ स्नेहा तथा प्रो सिमरनः इत्यादयः।

---------------

हिन्दुस्थान समाचार