Enter your Email Address to subscribe to our newsletters

पटना, 17 फरवरीमासः (हि.स.)। कर्पूरी ठाकुर
भारत-रत्न-जननायक-कर्पूरी-ठाकुरस्य पुण्यतिथौ मंगलवासरे देशरत्न-मार्ग-स्थिते जननायक-कर्पूरी-ठाकुर-स्मृति-संग्रहालये श्रद्धाञ्जलि-समारोहः आयोजितः। अस्मिन् अवसरे बिहारस्य मुख्यमन्त्री नीतीश कुमार कर्पूरी-ठाकुरस्य प्रतिमायाः समक्षं माल्यार्पणं कृत्वा भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्।
समारोहे राज्यस्य उपमुख्यमन्त्री विजय कुमार सिन्हा, ग्रामीण-विकास-मन्त्री श्रवण कुमार, ग्रामीण-कार्य-मन्त्री अशोक चौधरी, कृषि-मन्त्री रामकृपाल यादव तथा अन्ये बहवः जन-प्रतिनिधयः, सामाजिक-कार्यकर्तारः गणमान्य-जनाश्च उपस्थिताः आसन्। सर्वे प्रतिमायाः समक्षं पुष्पाञ्जलिं समर्प्य तस्य प्रति स्व-श्रद्धां व्यक्तवन्तः।
अस्मिन् सन्दर्भे कला-संस्कृति-युवा-विभागेन सर्वधर्म-प्रार्थना-सभा अपि आयोजिताऽ। कार्यक्रमे कर्पूरी-ठाकुरस्य जीवनं, संघर्षः, कृतित्वं च आधृत्य गीतानि, भजन-कीर्तनानि, निर्गुण-गीतानि च प्रस्तुतानि। कलाकारैः सामाजिक-न्याय-समानता-पिछड़े-वर्ग-उत्थानाय तेन कृतानि कार्याणि सांगीतिक-रूपेण स्मारितानि।
वक्तारः स्व-सम्बोधने उक्तवन्तः यत् कर्पूरी-ठाकुरस्य जीवनं सादगी-ईमानदारी-जनसेवा-प्रतीकं आसीत्। तेन शिक्षा-सामाजिक-न्याय-क्षेत्रे ऐतिहासिक-निर्णयान् स्वीकृत्य वंचित-वर्गान् मुख्य-धारया सह संयोजितम्।
समारोहस्य अन्ते उपस्थित-जनाः तस्य आदर्शान् अनुसृत्य सामाजिक-समरसतां सुदृढीकर्तुं संकल्पं कृतवन्तः।---------------
हिन्दुस्थान समाचार